ब्रह्मक्रियाया लोपेन बहुवर्षकृतेन च। यात्रां चेमां सकृत्कृत्वा वेदसंस्कारमाप्नुयात्
किमत्र बहुनोक्तेन इदमस्तीह शंकर। अप्राप्यं प्राप्यते तेन पापं चापि विनश्यति
सर्वयज्ञफलैस्तुल्यं सर्वतीर्थफलप्रदम्। सर्वेषां चैव वेदानां समाप्तिस्तेन वै कृता
यैः कृत्वा पुष्करे संध्यां सावित्री समुपासिता। स्वपत्नीहस्तदत्तेन पौष्करेण जलेन तु
भृंगारेण वरेणैव मृण्मयेनापि शंकर। आनीय तज्जलं पुण्यं संध्योपास्तिर्दिनक्षये
समाधिना समाधेया सप्राणायामपूर्विका। तस्यां कृतायां यत्पुण्यं तच्छृणुष्व हराद्य मे
तेन द्वादशवर्षाणि भवेत्संध्या सुवंदिता। अश्वमेधफलं स्नाने दाने दशगुणं तथा
उपवासेप्यनंतं च स्वयं प्रोक्तं मयानघ। सावित्र्याः पुरतो यस्तु दंपत्योर्भोजनं ददेत्
तेनाहं भोजितस्तत्र भवामीह न संशयः। द्वितीयं भोजयेद्यस्तु भोजितस्तेन केशवः
लक्ष्मीसहायो वरदो वरांस्तस्य प्रयच्छति। उमासहायस्तार्तीये भोजितोसि न संशयः
अथवा या कुमारीणां भक्त्या दद्याच्च भोजनम्। तस्याः कुले भवेद्वंध्या न कदाचिच्च दुर्भगा
न कन्या जननी क्वापि न भर्तुर्या न वल्लभा। तस्मात्सर्वप्रयत्नेन सावित्र्यग्रे तु भोजनम्
पारत्रमैहिकं वापि कामयद्भिर्नरैः सदा। दातव्यं सर्वदा भीष्म कटुतैलविवर्जितम्
न चाम्लं न च वै क्षारं स्त्रीणां भोज्यं कदाचन। भक्ष्यं पंचप्रकारं च रसैः सर्वैस्सुसंस्कृतम्
घृतपूर्यः सुपक्वाश्च बहुक्षीरसमन्विताः। शिखरिणी तथा पेया दधिक्षीरसमन्विता
आह्लादकारिणी पुंसां स्त्रीणां चातीव वल्लभा। धनधान्यां जनोपेतं नारीणां च शताकुलम्
पूपकं शष्कुलं तस्यां जायते नात्र संशयः। न ज्वरो न च संतापो न दुःखं न वियोगिता
असौ तारयते स्वानां कुलानामेकविंशतिं। बंधुभिश्च सुतैश्चैव दासीदासैरनंतकैः
पूरितं च कुलं तस्याः पूरिकां या प्रदास्यति। एधते च चिरं कालं पुत्रपौत्रसमन्वितम्
कुलं च सकलं तस्य शष्कुलं यः प्रयच्छति। पुत्रिण्यो वै दुहितरो बंधुभिः सहितं कुलम्
शिखरिणीप्रदात्रीणां युवतीनां न संशयः। मोदते तु कुलं तस्याः सर्वसिद्धिप्रपूरितम्
मोदकानां प्रदानेन एवमाह प्रजापतिः। एतदेव तु गौरीणां भोजनं हर शस्यते
सुभगा पुत्रिणी साध्वी धनऋद्धिसमन्विता। सहस्रभोजिनी शंभो जन्मजन्म भविष्यति
पूपानि चैव पुण्यानि कृतानि मधुराणि च। द्राक्षारसप्रधानं च गुडखंडसमन्वितम्
शारदेन तु धान्येन कृत्वा खंडं विमिश्रितत्। स्त्रीणां चैव तु पेयानि भक्ष्याणि च द्विजन्मनाम्
इह चाविकवासांसि वर्षायोग्यानि सर्वशः। यानियानि च पेयानि तानि योग्यानि दापयेत्
प्रतिपूज्य विधानेन वसुदानैः सकंचुकैः। कुंकुमेनानुलिप्तांग्यः स्रग्दामभिरलंकृताः
दत्वा तूपानहावङ्घ्र्योर्नारिकेलं करे तथा। अक्ष्णोश्चैवांजनं दत्वा सिंदूरं चैव मस्तके
गुडं फलानि हृद्यानि वांछितानि मृदूनि च। हस्ते दत्वा सपात्राणि प्रणिपत्य विसर्जयेत्
स्वयं भुंजीत वै पश्चात्सबंधुर्बालकैः सह। अथवा नैव संपत्तिस्तीर्थे दानं च भाजनम्1.34.