भागीरथ्यां पद्मतनुर्जलानंदो जलंधरे। कौंकणे चैव मद्राक्षः कांपिल्ये कनकप्रियः
वेंकटे चान्नदाता च शंभुश्चैव क्रतुस्थले। लंकायां च पुलस्त्योहं काश्मीरे हंसवाहनः
वसिष्ठश्चार्बुदे चैव नारदश्चोत्पलावते। मेलके श्रुतिदाताहं प्रपाते यादसांपतिः
सामवेदस्तथा यज्ञे मधुरे मधुरप्रियः। अंकोटे यज्ञभोक्ता च ब्रह्मवादे सुरप्रियः
नारायणश्च गोमंते मायापुर्यां द्विजप्रियः। ऋषिवेदे दुराधर्षो देवायां सुरमर्दनः
विजयायां महारूपः स्वरूपो राष्ट्रवर्द्धने। पृथूदरस्तु मालव्यां शाकंभर्यां रसप्रियः
पिंडारके तु गोपालः शंखोद्धारेंगवर्द्धनः। कादंबके प्रजाध्यक्षो देवाध्यक्षः समस्थले
गंगाधरो भद्रपीठे जलशाय्यप्यहमर्बुदे। त्र्यंबके त्रिपुराधीशः श्रीपर्वते त्रिलोचनः
महादेवः पद्मपुरे कापाले वैधसस्तथा। शृंगिबेरपुरे शौरिर्नैमिषे चक्रपाणिकः
दंडपुर्यां विरूपाक्षो गौतमो धूतपापके। हंसनाथो माल्यवति द्विजेंद्रो वलिके तथा1.34.
इंद्रपुर्यां देवनाथो द्यूतपायां पुरंदरः। हंसवाहस्तु लंबायां चंडायां गरुडप्रियः
महोदये महायज्ञः सुयज्ञो यज्ञकेतने। सिद्धिस्मरे पद्मवर्णः विभायां पद्मबोधनः
देवदारुवने लिंगं महापत्तौ विनायकः। त्र्यंबको मातृकास्थाने अलकायां कुलाधिपः
त्रिकूटे चैव गोनर्दः पाताले वासुकिस्तथा। पद्माध्यक्षश्च केदारे कूष्मांडे सुरतप्रियः
कुंडवाप्यां शुभांगस्तु सारण्यां तक्षकस्तथा। अक्षोटे पापहा चैव अंबिकायां सुदर्शनः
वरदायां महावीरः कांतारे दुर्गनाशनः। अनंतश्चैव पर्णाटे प्रकाशायां दिवाकरः
विराजायां पद्मनाभः स्वरुद्रश्च वृकस्थले। मार्कंडो वटके चैव वाहिन्यां मृगकेतनः
पद्मावत्यां पद्मगृहो गगने पद्मकेतनः। अष्टोत्तरं स्थानशतं मया ते परिकीर्तितम्
यत्र वै मम सांनिध्यं त्रिसंध्यं त्रिपुरांतक। एतेषामपि यस्त्वेकं पश्यते भक्तिमान्नरः
स्थानं सुविरजं लब्ध्वा मोदते शाश्वतीः समाः। मानसं वाचिकं चैव कायिकं यच्च दुष्कृतम्
तत्सर्वं नाशमायाति नात्र कार्या विचारणा। यस्त्वेतानि च सर्वाणि गत्वा मां पश्यते नरः
भवते मोक्षभागी च यत्राहं तत्र वै स्थितः। पुष्पोपहारैर्धूपैश्च ब्राह्मणानां च तर्पणैः
ध्यानेन च स्थिरेणाशु प्राप्यते परमेश्वरः। तस्य पुण्यफलं चाग्र्यमंते मोक्षफलं तथा
स ब्रह्मलोकमासाद्य तत्कालं तत्र तिष्ठति। पुनः सृष्टौ भवेद्देवो वैराजानां महातपाः
ब्रह्महत्यादि पापानि इहलोके कृतान्यपि। अकामतः कामतो वा तानि नश्यंति तत्क्षणात्
इहलोके दरिद्रो यो भ्रष्टराज्योथवा पुनः। स्थानेष्वेतेषु वै गत्वा मां पश्यति समाधिना
कृत्वा पूजोपहारं च स्नानं च पितृतर्पणम्। कृत्वा पिंडप्रदानं च सोचिराद्दुःखवर्जितः
एकच्छत्रो भवेद्राजा सत्यमेतन्न संशयः। इह राज्यानि सौभाग्यं धनं धान्यं वरस्त्रियः
भवंति विविधास्तस्य यैर्यात्रा पुष्करे कृता। इदं यात्राविधानं यः कुरुते कारयेत वा
शृणोति वा स पापैस्तु सर्वैरेव प्रमुच्यते। अगम्यागमनं येन कृतं जानाति मानवः