पद्मं चानेकपत्रान्तमसंख्यातं निरंजनम्। तत्र स्थितेन त्वयैषा सृष्टिश्चैव प्रवर्तिता
त्वां मुक्त्वा नान्यतस्त्राणं जगद्वंद्य नमोस्तु ते। सावित्रीशापदग्धोहं लिंगं मे पतितं क्षितौ
इदानीं कुरु मे शांतिं त्राहि मां सह भार्यया। ब्रह्मा वै पातु मे पादौ जंघे वै कमलासनः
विरिंचो मे कटिं पातु सृष्टिकृद्गुह्यमेव च। नाभिं पद्मनिभः पातु जठरं चतुराननः
उरस्तु विश्वसृक्पातु हृदयं पातु पद्मजः। सावित्रीपतिर्मे कंठं हृषीकेशो मुखं मम
पद्मवर्णश्च नयने परमात्मा शिरो मम। एवं न्यस्य गुरोर्नाम शंकरो नामशंकरः
नमस्ते भगवन्ब्रह्मन्नित्युक्त्वा विरराम ह। ततस्तुष्टो हरं ब्रह्मा वाक्यमेतदुवाच ह
कं ते कामं करोम्यद्य पृच्छ मां यद्यदिच्छसि। रुद्र उवाच॥ यदि प्रसन्नो मे नाथ वरदो यदि वा मम
तदेकं मे वद विभो यस्मिन्स्थाने भवान्स्थितः। केषुकेषु च स्थानेषु त्वां पश्यंति सदा द्विजाः
नाम्ना च केन ते स्थानं शोभते धरणीतले। तन्मे वदस्व सर्वेश तव भक्तिरतस्य च
ब्रह्मोवाच॥ पुष्करेहं सुरश्रेष्ठो गयायां च चतुर्मुखः। कान्यकुब्जे देवगर्भो भृगुकक्षे पितामहः
कावेर्य्यां सृष्टिकर्ता च नंदिपुर्य्यां बृहस्पतिः। प्रभासे पद्मजन्मा च वानर्यां च सुरप्रियः
द्वारवत्यां तु ऋग्वेदी वैदिशे भुवनाधिपः। पौंड्रके पुंडरीकाक्षः पिंगाक्षो हस्तिनापुरे
जयंत्यां विजयश्चास्मि जयंतः पुष्करावते। उग्रेषु पद्महस्तोहं तमोनद्यां तमोनुदः
अहिच्छन्ने जया नंदी कांचीपुर्यां जनप्रियः। ब्रह्माहं पाटलीपुत्रे ऋषिकुंडे मुनिस्तथा
महितारे मुकुंदश्च श्रीकंठः श्रीनिवासिते। कामरूपे शुभाकारो वाराणस्यां शिवप्रियः
मल्लिकाक्षे तथा विष्णुर्महेंद्रे भार्गवस्तथा। गोनर्दे स्थविराकार उज्जयिन्यां पितामहः
कौशांब्यां तु महाबोधिरयोध्यायां च राघवः। मुंनींद्रश्चित्रकूटे तु वाराहो विंध्यपर्वते
गंगाद्वारे परमेष्ठी हिमवत्यपि शंकरः। देविकायां स्रुचाहस्तः स्रुवहस्तश्चतुर्वटे
वृंदावने पद्मपाणिः कुशहस्तश्च नैमिषे। गोप्लक्षे चैव गोपीन्द्रः सचंद्रो यमुनातटे
भागीरथ्यां पद्मतनुर्जलानंदो जलंधरे। कौंकणे चैव मद्राक्षः कांपिल्ये कनकप्रियः
वेंकटे चान्नदाता च शंभुश्चैव क्रतुस्थले। लंकायां च पुलस्त्योहं काश्मीरे हंसवाहनः
वसिष्ठश्चार्बुदे चैव नारदश्चोत्पलावते। मेलके श्रुतिदाताहं प्रपाते यादसांपतिः
सामवेदस्तथा यज्ञे मधुरे मधुरप्रियः। अंकोटे यज्ञभोक्ता च ब्रह्मवादे सुरप्रियः
नारायणश्च गोमंते मायापुर्यां द्विजप्रियः। ऋषिवेदे दुराधर्षो देवायां सुरमर्दनः
विजयायां महारूपः स्वरूपो राष्ट्रवर्द्धने। पृथूदरस्तु मालव्यां शाकंभर्यां रसप्रियः
पिंडारके तु गोपालः शंखोद्धारेंगवर्द्धनः। कादंबके प्रजाध्यक्षो देवाध्यक्षः समस्थले
गंगाधरो भद्रपीठे जलशाय्यप्यहमर्बुदे। त्र्यंबके त्रिपुराधीशः श्रीपर्वते त्रिलोचनः
महादेवः पद्मपुरे कापाले वैधसस्तथा। शृंगिबेरपुरे शौरिर्नैमिषे चक्रपाणिकः
दंडपुर्यां विरूपाक्षो गौतमो धूतपापके। हंसनाथो माल्यवति द्विजेंद्रो वलिके तथा1.34.