संसारचक्रक्रमणैरनेकैः क्वचिद्भवान्देववराधिदेवः। तत्सर्वविज्ञानविशुद्धसत्वैरुपास्यसे किं प्रणमाम्यहं त्वाम्
एवं भवंतं प्रकृतेः पुरस्ताद्यो वेत्त्यसौ सर्वविदां वरिष्ठः। गुणान्वितेषु प्रसभं विवेद्यो विशालमूर्तिस्त्विह सूक्ष्मरूपः
वाक्पाणिपादैर्विगतेन्द्रियोपि कथं भवान्वै सुगतिस्सुकर्मा। संसारबंधे निहितेंद्रियोपि पुनः कथं देववरोसि वेद्यः
मूर्त्तादमूर्त्तं न तु लभ्यते परं परं वपुर्देवविशुद्धभावैः। संसारविच्छित्तिकरैर्यजद्भिरतोवसीयेत चतुर्मुख त्वम्
परं न जानंति यतो वपुस्ते देवादयोप्यद्भुतरूपधारिन्। विभोवतारेग्रतरं पुराणमाराधयेद्यत्कमलासनस्थम्
न ते तत्त्वं विश्वसृजोपि योनिमेकांततो वेत्ति विशुद्धभावः। परं त्वहं वेद्मि कथं पुराणं भवंतमाद्यं तपसा विशुद्धम्
पद्मासनो वै जनकः प्रसिद्ध एवं प्रसिद्धिर्ह्यसकृत्पुराणात्। संचिंत्य ते नाथ विभुं भवंतं जानाति नैवं तपसाविहीनः
अस्मादृशैश्च प्रवरैर्विबोध्यं त्वां देवमूर्खाः स्वमतिं विभज्य। प्रबोद्धुमिच्छन्ति न तेषु बुद्धिरुदारकीर्तिष्वपि वेदहीनाः
जन्मांतरैर्वेद विवेकबुद्धिभिर्भवेद्यथा वा यदि वा प्रकाशः। तल्लाभलुब्धस्य न मानुषत्वं न देवगंधर्वपतिः शिवः स्यात्
न विष्णुरूपो भगवान्सुसूक्ष्मः स्थूलोसि देवः कृतकृत्यतायाः। स्थूलोपि सूक्ष्मः सुलभोसि देव त्वद्बाह्यकृत्या नरकेपतंति
विमुच्यते वा भवति स्थितेस्मिन्दस्रेन्दुवह्न्यर्कमरुन्महीभिः। तत्वैः स्वरूपैः समरूपधारिभिरात्मस्वरूपे वितत स्वभावः
इति स्तुतिं मे भगवन्ह्यनंत जुषस्व भक्तस्य विशेषतश्च। समाधियुक्तस्य विशुद्धचेतसस्त्वद्भावभावैकमनोनुगस्य
सदा हृदिस्थो भगवन्नमस्ते नमामि नित्यं भगवन्पुराण। इति प्रकाशं तव मे तदीशस्तवं मया सर्वगतिप्रबुद्ध
संसारचक्रे भ्रमणादियुक्ता भीतिं पुनर्नः प्रतिपालयस्व
ब्रह्मोवाच॥ सर्वज्ञस्त्वं न संदेहो प्रज्ञाराशिश्च केशव। देवानां प्रथमः पूज्यः सर्वदा त्वं भविष्यसि
नारायणादनंतरं रुद्रो भक्त्या विरिंचनम्। तुष्टाव प्रणतो भूत्वा ब्रह्माणं कमलोद्भवम्
नमः कमलपत्राक्ष नमस्ते पद्मजन्मने। नमः सुरासुरगुरो कारिणे परमात्मने
नमस्ते सर्वदेवेश नमो वै मोहनाशन। विष्णोर्नाभिस्थितवते कमलासन जन्मने
नमो विद्रुमरक्तांग पाणिपल्लवशोभिने। शरणं त्वां प्रपन्नोस्मि त्राहि मां भवसंसृतेः
पूर्वं नीलांबुदाकारं कुड्मलं ते पितामह। दृष्ट्वा रक्तमुखं भूयः पत्रकेसरसंयुतम्
पद्मं चानेकपत्रान्तमसंख्यातं निरंजनम्। तत्र स्थितेन त्वयैषा सृष्टिश्चैव प्रवर्तिता
त्वां मुक्त्वा नान्यतस्त्राणं जगद्वंद्य नमोस्तु ते। सावित्रीशापदग्धोहं लिंगं मे पतितं क्षितौ
इदानीं कुरु मे शांतिं त्राहि मां सह भार्यया। ब्रह्मा वै पातु मे पादौ जंघे वै कमलासनः
विरिंचो मे कटिं पातु सृष्टिकृद्गुह्यमेव च। नाभिं पद्मनिभः पातु जठरं चतुराननः
उरस्तु विश्वसृक्पातु हृदयं पातु पद्मजः। सावित्रीपतिर्मे कंठं हृषीकेशो मुखं मम
पद्मवर्णश्च नयने परमात्मा शिरो मम। एवं न्यस्य गुरोर्नाम शंकरो नामशंकरः
नमस्ते भगवन्ब्रह्मन्नित्युक्त्वा विरराम ह। ततस्तुष्टो हरं ब्रह्मा वाक्यमेतदुवाच ह
कं ते कामं करोम्यद्य पृच्छ मां यद्यदिच्छसि। रुद्र उवाच॥ यदि प्रसन्नो मे नाथ वरदो यदि वा मम
तदेकं मे वद विभो यस्मिन्स्थाने भवान्स्थितः। केषुकेषु च स्थानेषु त्वां पश्यंति सदा द्विजाः
नाम्ना च केन ते स्थानं शोभते धरणीतले। तन्मे वदस्व सर्वेश तव भक्तिरतस्य च