रुद्रास्त्रिशूलनिर्घातैर्निशुंभं जघ्नुरोजसा । निशुंभो बाणजालैश्च पीडयामास तानति
शुंभासुरो देवगणान्पूरयामास मार्गणैः । मृत्युं मायामय मयो बद्ध्वा पाशैर्निनायतम्
ददौ जालंधरायासौ पौलोम्ने सोऽपि सिंधवे । अब्धिना च मुखे क्षिप्तो लोको जीवतु निर्भयः
बद्ध्वा च नमुचिं पाशैर्वासवोऽपि रसातलम् । निन्ये विश्वस्य हंतारं अथ जालंधरो ययौ
अथेंद्रबलयोर्युद्धमभूद्राजन्सुदारुणम् । बलांगरोचिषो भांति दिशो दश रवेरिव
सर्वाण्यस्त्राणि शक्रस्य शीर्णान्यंगे बलस्य च । बलीयसा बलेनेंद्रो मुद्गरेण हतो हृदि
ननादेंद्रस्ततो भीमं तच्छ्रुत्वा स बलोहसत् । हसतस्तस्य निश्चेरुर्मुखतो मौक्तिकानि च
तस्यांगस्याभिलाषेण न युद्धमकरोत्तदा । तुष्टाव वासवोऽत्यर्थं तं बलं बलसागरम्
वरं वृणु सुरश्रेष्ठेत्युक्तः प्राह बलं प्रति । यदि तुष्टोऽसि दैत्येश स्वं वपुर्दातुमर्हसि
तदिंद्र वचनं श्रुत्वा भित्त्वा शस्त्रैर्गृहाण माम् । इत्युवाच बलं सोऽपि किमदेयं महात्मनाम्
सस्मारितो मातलिना वज्रेणांगं जघान तत् । तेन वज्रप्रहारेण बलांगं तद्व्यशीर्यत
बलांगस्यैकभागस्तु पपात कनकाचले । तुहिनाद्रौ द्वितीयस्तु तृतीयो गोनगेऽपतत्
चतुर्थो देवनद्यां च पंचमो मंदरे तथा । वज्राकरे पपातांशः षष्ठश्च विजयांगजः
तस्य जातिविशुद्धस्य परिशुद्धेन कर्मणा । कायस्यावयवाः सर्वे रत्नबीजत्वमागताः
वज्रादस्थिकणाः कीर्णाः षट्कोणा मणयोऽभवन् । अक्षिभ्यामिन्द्रनीला वै माणिक्यं श्रुतिसंभवम्
क्षतजात्पद्मरागाः स्युः मेदसो मरकतास्तथा । प्रवालानि च जिह्वातो दंता मुक्तास्तथाभवन्
मज्जोद्भवं मरकतं गारुत्मतमभून्नसा । कांस्यं पुरीषं रजतं वीर्यं ताम्रं च मूत्रजम्
अंगस्योद्वर्तनाज्जातं पित्तलं ब्रह्मवीतिकाः । नादाद्वैदूर्यमुत्पन्नं रत्नं चारुतरं तथा
नखेभ्यः कनकोत्पत्ती रुधिराच्च रसोद्भवः । मेदसः स्फटिकं जातं प्रवालं मांससंभवम्
बलदेहोद्भवान्यासन्रत्नानि पृथिवीतले । पुण्योपचयसंपत्त्या भोक्ष्यंते विमलैर्जनैः
अत्रांतरे हतं श्रुत्वा बलं मघवता मृधे । प्रभावती नाम राज्ञी ययौ तच्चरणांतिकम्
विललाप पतिं दृष्ट्वा विकीर्णावयवं रणे । प्रभावत्यश्रुपूर्णाक्षी मुक्तकेशी घनस्तनी
हा नाथ बलविक्रांत कांतदेह जगत्प्रिय । मां त्वं विहाय किं चात्र कैवल्यं गतवानसि
जराकुष्ठादिभिर्व्याप्तं बुद्ध्वा देहं त्यजंति न । देहिनोऽन्ये परं कांतं त्वया देहो वृथोज्झितः
तव देहेन दिव्येन हारकं भूष्यते प्रिय । रणोत्सुकेन भवता या वेणी ग्रथिता मम
तामुद्ग्रथय वैधव्यदुःखार्त्तायाः स्वयं प्रिय । एवं विलपतीं वीक्ष्य बलराज्ञीं समुद्रजः । दुःखितः शुक्रमित्याह बलं जीवय भार्गव
शुक्र उवाच-। इच्छयामरणं प्राप्तं तं कथं जीवयाम्यहम् । तथापि मंत्रसामर्थ्याद्वाचमुच्चारयिष्यति
जालंधर उवाच-। बलस्य रूप वचनं श्रोतुमिच्छामि भार्गव । जालंधरेणैवमुक्तः क्षणं ध्यानपरोऽभवत्
अथोदतिष्ठद्वदनात्स्वनः श्रोत्रमनोरमः । प्रभावतीं प्रति व्यक्तं वाद्यभांडा दिवोत्थितः
प्रभावति स्वदेहं त्वं ममांगेषु लयं नय । इति तस्य वचः श्रुत्वा नदी जाता प्रभावती