सूत उवाच- स प्रभुः सर्वलोकेशो ह्यभिषिच्य ततो नृपम् । पृथुं वेनस्य तनयं सर्वराज्ये महाप्रभुम्
Sūta said: Then that Lord of all worlds anointed Pṛthu, the mighty son of Vena, as king over the entire realm.
महाबाहुं महाकायं यथेंद्रं च सुरेश्वरम् । क्रमेणापि ततो ब्रह्मा राज्यानि च विचार्य वै
He, strong-armed and great-bodied, like Indra the lord of the gods, was thus installed; and then Brahmā, considering the kingdoms in order—
यद्यस्यापि भवेद्योग्यं दातुं तदुपचक्रमे । वृक्षाणां ब्राह्मणानां च ग्रहर्क्षाणां तथैव च
—began to grant rulership to those deemed worthy, among the trees, the brāhmaṇas, the planets and stars as well.
सोमं राज्ये सोभ्यषिंचत्तपसां च महामतिः । धर्माणां धर्मयज्ञानां पुण्यानां पुण्यतेजसाम्
He anointed Soma as king among ascetics, among dharmas, sacrificial rites, the virtuous, and those radiant with merit.
अपां मध्ये तथा देवं तीर्थानां हि तथैव च । वरुणं सोभिषिच्यैव रत्नानां च द्विजोत्तम
Among waters, he installed Varuṇa as king, and likewise among sacred fords; and among jewels, O best of twice-born, he did the same.
अन्येषां सर्वयक्षाणां राज्ये वैश्रवणं पुनः । विष्णुमेव महाप्राज्ञमादित्यानां पितामहः
Among all the Yakṣas, he again made Vaiśravaṇa king; among the Ādityas, the wise grandsire established Viṣṇu.
राज्ये संस्थापयामास जनता हितहेतवे । सर्वेषामेव पुण्यानां दक्षमेव प्रजापतिम्
For the welfare of all beings, he established Dakṣa as king over all the virtuous.
समर्थं सर्वधर्मज्ञं प्रजापतिगणेश्वरम् । प्रह्रादं सर्वधर्मज्ञं स हि राज्ये न्यरूपयत्
He appointed Prajāpati Dakṣa, capable and knower of all dharma, as lord among the Prajāpatis; and Prahlāda, knower of all dharma, he installed as king.
दैत्यानां दानवानां च विष्णुतेजः समन्वितम् । यमं वैवस्वतं धर्मं पैत्र्ये राज्येभिषिच्य च
Among the Daityas and Dānavas, endowed with the energy of Viṣṇu, he anointed Yama Vaivasvata as king over the ancestral realms.
यक्षराक्षसभूतानां पिशाचोरगसर्पिणाम् । योगिनीनां च सर्वासां वैतालानां महात्मनाम्
Among Yakṣas, Rākṣasas, Bhūtas, Piśācas, serpents, and Yoginīs, and all the great Vaitālas—
कंकालानां हि सर्वेषां कूष्मांडानां तथैव च । पार्थिवानां च सर्वेषां गिरिशं शूलपाणिनम्
Among all Kaṃkālas and likewise Kūṣmāṇḍas, and among all earthly beings, he established Girīśa, the wielder of the trident, as king.
पर्वतानां हि सर्वेषां हिमवंतं महागिरिम् । नदीनां च तडागानां वापिकानां तथैव च
Among all mountains, he installed Himavat, the great mountain; among rivers, lakes, and ponds as well—
कुंडानां कूपराज्ये हि दिव्येषु च सुरेश्वरः । सागरं स्थापितं पुण्यं सर्वतीर्थमनुत्तमम्
Among pools and wells, in the divine realms, the lord of gods established the ocean, the most sacred and supreme of all holy places.
गंधर्वाणां तु सर्वेषां राज्ये पुण्ये तथैव च । चित्ररथं ततो ब्रह्मा अभिषिच्य सुरेश्वरः
Among all Gandharvas, he anointed Citraratha as king in their sacred realm; so did Brahmā, lord of the gods.
नागानां पुण्यवीर्याणां वासुकिं च चतुर्मुखः । सर्पाणां तु तथा राज्ये अभिषिच्य स तक्षकम्
Among the Nāgas of virtuous might, the four-faced one installed Vāsuki; and among serpents, he anointed Takṣaka as king.
वारणानां ततो राज्ये ऐरावणमसिंचत । अश्वानां चैव सर्वेषामुच्चैःश्रवसमेव च
Then, among elephants, he installed Airāvata as king; and among all horses, Uccaiḥśravas.
पक्षिणां चैव सर्वेषां वैनतेयमथापि सः । मृगाणां च ततो राज्ये ब्रह्मा सिंहमथादिशत्
And among all the birds, Brahmā appointed Garuḍa as their lord; among the beasts, he then established the lion as king.
गोवृषं तु गवां मध्ये अभिषिच्य प्रजापतिः । वनस्पतीनां सर्वेषां प्लक्षमेव पितामहः
Among cows, Prajāpati anointed the bull as their leader; and among all trees, Pitāmaha made the fig tree supreme.
एवं राज्यानि सर्वाणि संस्थाप्य च पितामहः । दिशापालांस्ततो ब्रह्मा स्थापयामास सत्तमः
In this way, Pitāmaha established all the kingdoms; then Brahmā, the most excellent, appointed the guardians of the directions.
वैराजस्य तथा पुत्रं पूर्वस्यां दिशि सत्तमः । सुधन्वानं दिशःपालं राजानं सोभ्यषिंचत
In the eastern direction, the noble Brahmā anointed Sudhanvan, son of Vairāja, as the king and guardian of that quarter.
दक्षिणस्यां महात्मानं कर्दमस्य प्रजापतेः । पुत्रं शंखपदं नाम राजानं सोभ्यषिंचत
In the southern direction, he anointed Śaṅkhapāda, the great-souled son of Prajāpati Kardama, as king.
पश्चिमायां तथा ब्रह्मा वरुणस्य प्रजापतेः । पुत्रं च पुष्करं नाम सोऽभ्यषिंचत्प्रजापतिः
In the western direction, Prajāpati Brahmā anointed Puṣkara, son of Prajāpati Varuṇa, as king.
उत्तरस्यां दिशि ब्रह्म नलकूबरमेव च । एवं चैवाभ्यषिंचच्च दिक्पालान्समहौजसः
In the northern direction, Brahmā likewise anointed Nalakūbara; thus he installed the guardians of the directions, all possessing great strength.
यैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना । यथाप्रदेशमद्यापि धर्मेण प्रतिपाल्यते
By whom this entire earth, with its seven continents and cities, is still protected according to their regions, in righteousness.
पृथुश्चैवं महाभागः सोभिषिक्तो नराधिपः । राजसूयादिभिः सर्वैरभिषिक्तो महामखैः
Thus, the greatly fortunate Pṛthu was anointed as lord of men, consecrated by all the great sacrifices such as the Rājasūya.
विधिना वेददृष्टेन राजराज्ये महीपतिः । चाक्षुषे नाम्नि संपुण्ये अतीते च महौजसि
The mighty king was installed in royal sovereignty according to the ordinance seen in the Veda, in the celebrated Cākṣuṣa Manvantara that has passed.
मन्वंतरे महाभाग देवपुण्यहितैषिणि । ततो वैवस्वतायैव मनवे राज्यमादिशत्
In that Manvantara, O greatly fortunate one, which sought the welfare of gods and the virtuous, he then entrusted the kingdom to Vaivasvata Manu.
विस्तरं चापि व्याख्यास्ये पृथोश्चैव महात्मनः । यदि मामेव विप्रेन्द्र शुश्रूषसि अतंद्रितः
I shall now explain in detail the birth of that great-souled Pṛthu, if you, O best of Brāhmaṇas, wish to listen attentively to me.
एतदेवमधिष्ठानं महत्पुण्यं प्रकीर्तितम् । सर्वेष्वेव पुराणेषु एतद्धि निश्चितं सदा
This very foundation, renowned as supremely holy, is declared in all the Purāṇas; this indeed is always certain.
पुण्यं यशस्यमायुष्यं स्वर्गवासकरं शुभम् । धन्यं पवित्रमायुष्यं पुत्रदं वृद्धिदायकम्
It is meritorious, brings fame and long life, leads to residence in heaven, is auspicious, blessed, pure, life-giving, grants sons, and bestows prosperity.