तारादिपञ्चमं न्यासं कुर्यात्सर्वेष्टसिद्धये
ताराद्या न्यासपूर्वाश्च प्रयोज्या अष्टशक्तयः
कामेश्वरी च चामुण्डा इत्यष्टौ तारिकाः स्मृताः
हृदि नाभौ फले मूलाधारे चेताः क्रमान्न्यसेत्
आधारे कामरूपाख्यं बीजं ह्रस्वार्णपूर्वकम्
ललाटे पूर्णगिर्याख्यं कवर्गाद्यं न्यसेत्सुधीः
कण्ठे तु मथुरापीठं दशम यादिकं न्यसेत्
हृदि श्रीमदेकजटां तारिणीं शिरसि न्यसेत्
महोग्रा वत्सरे नेत्रे पिङ्गाग्रैकजटास्त्रके
अङ्गुष्ठादिष्वङ्गुलीषु पूर्वं विन्यस्य यत्नतः
छोटिकामुद्राया कुर्याद्दिग्बन्धं देवतां स्मरन्
उग्रतारां ततो ध्यायेत्सद्यो वादे ऽतिसिद्धिदाम्
कम्बुं खड्गं कपालं च नीलाब्जं दधतीं करैः
जपेल्लक्षचतुष्कं हि दशांशं रक्तपद्मकैः
नारीं पश्यन्स्पृशन्गच्छन्महानिशि बलिं चरेत्
पर्वते वनमध्ये वा शवमारुह्य मन्त्रवित्
विद्यां साधयतः शीघ्रं साधितैवं प्रसिद्ध्यति
विश्वेश्वरीति संप्रोक्ताः पीठस्य नव शक्तयः
योगपीठात्मने हार्द्दं पीठस्य मनुरीरितः
पूजयेद्विधिवद्देवीं तद्विधानमथोच्यते
यक्षाधिपतये तन्द्रीसोपनीतं बलिं ततः
दद्यान्नित्यं बलिं तेन मध्यरात्रे चतुष्पथे
ध्रुवो वज्रोदके वर्म फट्सप्तार्णो जलग्रहे
तारो मायाः भृगुः कर्णोविशुद्धं धर्मवर्मतः
कल्पान्तनयनस्वाहा मन्त्र आचमने मतः
खरिविद्यायुग्रिजश्व सर्ववान्ते बको ऽब्जवान्
त्रयोविंशतिवर्णात्मा शिखाया बन्धने मनुः
नवार्णेनामुना मन्त्री कुर्याद्भूमिविशोधनम्
हुं फट् स्वाहा गुणेन्द्वर्णो मनुर्विघ्ननिवारणम्
तदुत्थेनाग्निना देहं दहेत्साद्धस्वपाप्मना