सकामिका क्रुधा शान्तिश्चन्द्रालङ्कृतमस्तका
मुनिरक्षोभ्य उद्दिष्टश्छन्दस्तु बृहती मतम्
शक्तिः षड्दीर्घयुक्तेन द्वितीयेनाङ्गकल्पनम्
श्रीकण्ठादीन्न्यसेद्रुद्रान्मातृकावर्णपूर्वकान्
चतुर्थीनमसायुक्तान्प्रथमो न्यास ईरितः
अर्द्धेन्दुशेखरां नानाभूषणाढ्यां स्मरन्न्यसेत्
त्रिबीजस्वरपूर्वं तु रक्तसूय हृदि न्यसेत्
कवर्गपूर्वं रक्ताभं मङ्गलं लोचनत्रयम्
ढवर्गाद्यं पीतवर्णं कठ्णकूपे बृहस्पतिम्
नीलवर्णं पवर्गाद्यं नाभिदेशे शनैश्चरम्
त्रिबीजपूर्वकश्चैवं ग्रहन्यासः समीरितः
मायादिबीजत्रितयपूर्वकं सर्वसिद्धये
ह्रस्वदीर्घकादिकाष्टवर्गपूर्वान्दिशाधिपान्
त्रिबीजपूर्वकान्न्यस्येत्षट्शिवाञ्छक्तिसंयुतान्
ब्रह्माणं डाकिनीयुक्तं वादिसांतार्णपूर्वकम्
श्रीविष्णुं राकिणीयुक्तबादिलान्तार्णपूर्वकम्
रुद्रं तु डाकिनीयुक्तं डादिफआन्तार्णपूर्वकम्
ईश्वरं कादिठान्तार्णपूर्वकं शाकिनीयुतम्
सदाशिवं शाकिनीं च षोडशस्वरपूर्वकम्
आज्ञाचक्रे परशिवं हाकिनीसंयुतं न्यसेत्
तारादिपञ्चमं न्यासं कुर्यात्सर्वेष्टसिद्धये
ताराद्या न्यासपूर्वाश्च प्रयोज्या अष्टशक्तयः
कामेश्वरी च चामुण्डा इत्यष्टौ तारिकाः स्मृताः
हृदि नाभौ फले मूलाधारे चेताः क्रमान्न्यसेत्
आधारे कामरूपाख्यं बीजं ह्रस्वार्णपूर्वकम्
ललाटे पूर्णगिर्याख्यं कवर्गाद्यं न्यसेत्सुधीः
कण्ठे तु मथुरापीठं दशम यादिकं न्यसेत्
हृदि श्रीमदेकजटां तारिणीं शिरसि न्यसेत्
महोग्रा वत्सरे नेत्रे पिङ्गाग्रैकजटास्त्रके
अङ्गुष्ठादिष्वङ्गुलीषु पूर्वं विन्यस्य यत्नतः