भीमोन्मत्तादिकां चापि वशीकरणभैरवीम्
एवमाराधिता काली सिद्धा भवति मन्त्रिणाम्
आत्मनो वा परस्यार्थं क्षिप्रसिद्धिप्रदायकान्
आत्मनो हितमन्विच्छन् कालीभक्तो विवर्जयेत्
अयुतं सो ऽचिरादेव वाक्पतेः समतामियात्
जपेद्यो ऽयुतमेतस्य भवेयुः सर्वसिद्धयः
अर्कपुष्पसहस्रेणाभ्यक्तेन स्वीयरेतसा
सो ऽचरेणैव कालेन धरणीप्रभुतां व्रजेत्
सकवित्वेन रम्येण जनान्मोहयति ध्रुवम्
महाकालेन देवेन मारयुद्धं प्रकुर्वतीम्
जपेत्सहस्रमपि यः स शङ्करसमो भवेत्
उष्ट्रस्य महिषस्यापि बलिं यस्तु समर्पयेत्
विद्यालक्ष्मीयशःपुत्रैः स चिरं सुखमेधते
नक्तं निधुवनासक्तो लक्षं स स्याद्धरापतिः
बिल्वपत्रैर्भवेद्राज्यं रक्तपुष्पैर्वशीकृतिः
तस्य स्युरचिरादेव करस्थाः सर्वसिद्धयः
तस्य सिद्धो मनुः सद्यः सर्वेप्सितफलप्रदः
दत्तं दानं तपस्तप्तं उपास्ते यस्तु कालिकाम्
पूजिताः सकला देवा यः कालीं पूजयेत्सदा
यां निषेव्य नरा लोके कृतार्थाः स्युर्न संशयः
सकामिका क्रुधा शान्तिश्चन्द्रालङ्कृतमस्तका
मुनिरक्षोभ्य उद्दिष्टश्छन्दस्तु बृहती मतम्
शक्तिः षड्दीर्घयुक्तेन द्वितीयेनाङ्गकल्पनम्
श्रीकण्ठादीन्न्यसेद्रुद्रान्मातृकावर्णपूर्वकान्
चतुर्थीनमसायुक्तान्प्रथमो न्यास ईरितः
अर्द्धेन्दुशेखरां नानाभूषणाढ्यां स्मरन्न्यसेत्
त्रिबीजस्वरपूर्वं तु रक्तसूय हृदि न्यसेत्
कवर्गपूर्वं रक्ताभं मङ्गलं लोचनत्रयम्
ढवर्गाद्यं पीतवर्णं कठ्णकूपे बृहस्पतिम्
नीलवर्णं पवर्गाद्यं नाभिदेशे शनैश्चरम्