पिङ्गलाक्षी विशालाक्षी समृद्धिर्बुद्धिरेव च
त्रिलोकधात्री गायत्री सावित्री त्रिदशेश्वरी
विमला कमला पश्चादरुणी पुनरारुणी
सन्ध्या माता सती हंसी मर्दिका वज्रिका परा
त्रिमुखी सप्तवदना सुरासुरविमर्द्दिनी
रथरेखाह्वया पश्चाच्छशिरेखा तथापरा
ततो भुवनपालाख्या ततः स्यान्मदनातुरा
अनङ्गकुसुमा विश्वरूपा सुरभयङ्करी
वरदाख्याथ वागीशी चतुःषष्टिःसमीरिताः
दंष्ट्रिण्यश्चोर्द्ध्वकेश्यस्ता युद्धोपक्रान्तमानसाः
लोकेशाः पूर्ववत्पूज्यास्तद्वद्वज्रादिकान्यपि
आज्येन खादिरे वह्नौ ततः सिद्धो भवेन्मनुः
उत्पलैर्जुह्वतो नूनं महालक्ष्मीः प्रजायते
राजीलवणहोमेन वनितां वशमानयेत्
वाणीबीजजपाशक्तो नात्र कार्या विचारणा
तस्या मन्त्रं प्रवक्ष्यामि भुक्तिमुक्तिप्रदं नृणाम्
अरुणाक्ष्यादीपिका च बिन्दुयुक्ता द्विधा ततः
पुनश्च सप्तबीजानि स्वाहान्तो ऽयं मनूत्तमः
बीजं मायादीर्घवर्त्म शक्तिरुक्ता मुनीश्वर
मातृकार्णान्दश दश हृदये भुजयोः पदोः
शिरः कृपाणमभयं वरं हस्तैश्च बिभ्रतीम्
सर्वालङ्कृतवर्णां च श्यामाङ्गीं कालिकां स्मरेत्
प्रसूनैः करवीरोत्थैः पूजायन्त्रमथोच्यते
पद्ममष्टदलं बाह्ये भूपुरं तत्र पूजयेत्
नित्या विलासिनी वापि दोग्ध्यघोरा च मङ्गला
शिवरूपशवश्थां च शिवाभिर्दिक्षु वेष्टिताम्
कालीं कपालिनीं कुल्लां कुरुकुल्लां विरोधिनीम्
उग्रामुष्णप्रभां दीप्तां नीलाधानां बलाकिकाम्
पद्मस्यास्य सुयत्नेन ब्राह्मी नारायणीत्यपि
वाराही नारसिंहा च पुनरेतास्तु भूपुरे