द्वितीया मातृभिः प्रोक्ता तृतीयाद्यष्टशक्तिभिः
चतुःषष्ट्या स्मृता षष्ठी शक्तिभिर्लोकनायकैः
एवं पूज्या जगद्धात्री श्रीमती वाग्भवाभिधा
अम्बिका वाग्भवा दुर्गा श्रीशक्तिश्चोक्तलक्षणा
सरस्वती श्रीर्दुर्गा च लक्ष्मीश्चैव धृतिः स्मृतिः
खड्गखेटकधारिण्यः श्यामाः पूज्याः स्वलङ्कृताः
रुद्रवीर्या प्रभा नन्दा पोषणा वृद्धिदा शुभा
विकृतिर्दण्डिमुण्डिन्यौ सेंदुखण्डा शिखण्डिनी
इन्द्राणी चैव रुद्राणी शङ्करार्द्धशरीरिणी
अम्बिका ह्रदिनी चैव द्वात्रिंशच्छक्तयः सिताः
पिङ्गलाक्षी विशालाक्षी समृद्धिर्बुद्धिरेव च
त्रिलोकधात्री गायत्री सावित्री त्रिदशेश्वरी
विमला कमला पश्चादरुणी पुनरारुणी
सन्ध्या माता सती हंसी मर्दिका वज्रिका परा
त्रिमुखी सप्तवदना सुरासुरविमर्द्दिनी
रथरेखाह्वया पश्चाच्छशिरेखा तथापरा
ततो भुवनपालाख्या ततः स्यान्मदनातुरा
अनङ्गकुसुमा विश्वरूपा सुरभयङ्करी
वरदाख्याथ वागीशी चतुःषष्टिःसमीरिताः
दंष्ट्रिण्यश्चोर्द्ध्वकेश्यस्ता युद्धोपक्रान्तमानसाः
लोकेशाः पूर्ववत्पूज्यास्तद्वद्वज्रादिकान्यपि
आज्येन खादिरे वह्नौ ततः सिद्धो भवेन्मनुः
उत्पलैर्जुह्वतो नूनं महालक्ष्मीः प्रजायते
राजीलवणहोमेन वनितां वशमानयेत्
वाणीबीजजपाशक्तो नात्र कार्या विचारणा
तस्या मन्त्रं प्रवक्ष्यामि भुक्तिमुक्तिप्रदं नृणाम्
अरुणाक्ष्यादीपिका च बिन्दुयुक्ता द्विधा ततः
पुनश्च सप्तबीजानि स्वाहान्तो ऽयं मनूत्तमः
बीजं मायादीर्घवर्त्म शक्तिरुक्ता मुनीश्वर
मातृकार्णान्दश दश हृदये भुजयोः पदोः