विगलद्रत्नवर्षाभ्यां शङ्खभ्या मूर्ध्नि लाञ्छितौ
वामतः पङ्कजनिधिं प्रियया सहितं यजेत्
निःसरद्रत्नवर्षाभ्यां पद्माभ्यां मूर्ध्नि लाञ्छितौ
दलाग्रेषु यजेदेताबलाक्याद्याः समन्ततः
विभीषिका मालिका च शाङ्करी वसुमालिका
लोकेशान्पूजयेदन्ते वज्राद्यास्त्राणि तद्बहिः
धनधान्यसमृद्धः स्याच्छ्रियमाप्नोत्यनिन्दिताम्
त्रिलक्षमर्कगं ध्यायन्स भवेत्कमलालयः
साधको यः स लभते वाञ्छितं धनसंचयम्
होमेनखादिरे वह्नौ तण्डुलेर्मधुरोक्षितैः
बिल्वच्छायामधिवसन्बिल्वमिश्रहविष्यभुक्
साधकेन्द्रो महालक्ष्मीं चक्षुषा पश्यति ध्रुवम्
जातौ शुभनिशुंभौ द्वावसुरौ लोककण्टकौ
महासरस्वती देवी तदा चावततार ह
ततः शुम्भादिकान्हत्वा दैवतैः परिपूजिता
तस्या मन्त्रं प्रवक्ष्यामि शृणुष्वावहितो मुनने
वाग्बीजं तेन चाङ्गानि कल्पयेत्साधकोत्तमः
देवता वाक्समाख्याता भजतामिष्टदायिनी
दिव्यैराभरणैर्युक्तां ध्यायेद्देवीं निरन्तराम्
देवीं संपूजयेत्तस्यामङ्गाद्यावरणैः सह
द्वितीया मातृभिः प्रोक्ता तृतीयाद्यष्टशक्तिभिः
चतुःषष्ट्या स्मृता षष्ठी शक्तिभिर्लोकनायकैः
एवं पूज्या जगद्धात्री श्रीमती वाग्भवाभिधा
अम्बिका वाग्भवा दुर्गा श्रीशक्तिश्चोक्तलक्षणा
सरस्वती श्रीर्दुर्गा च लक्ष्मीश्चैव धृतिः स्मृतिः
खड्गखेटकधारिण्यः श्यामाः पूज्याः स्वलङ्कृताः
रुद्रवीर्या प्रभा नन्दा पोषणा वृद्धिदा शुभा
विकृतिर्दण्डिमुण्डिन्यौ सेंदुखण्डा शिखण्डिनी
इन्द्राणी चैव रुद्राणी शङ्करार्द्धशरीरिणी
अम्बिका ह्रदिनी चैव द्वात्रिंशच्छक्तयः सिताः