कर्पूरागरुसंयुक्तकुङ्कुमं साधु साधितम्
शालिपिष्टमयीं कृत्वा पुत्तलीं मधुरान्विताम्
वशं नयति राजानं नारीं वा नरमेव च
त्रिसहस्रं जपेन्मन्त्रं कन्यामिष्टां लभेत्ततः
लिखितां भस्मना मायां ससाध्यां फलकादिषु
भुवनेशीयमाख्याता सहस्रभुजसंभवा
ततः कल्पान्तरे विप्र कदाचिन्महिषासुरः
ततस्त्पीडिता देवा वैकुण्ठं शरणं ययुः
श्रीर्बभूवमुनिश्रेष्ठ मूर्ता व्याप्तजगत्त्रया
अरविन्दवनं प्राप्ता भजतामिष्टदायिनी
मृत्युक्रोधेन गुरुणा बिन्दुभूषितमस्तका
ऋषिर्भृगुर्निवृच्छन्दो देवता श्रीः समीरिता
ततो ध्यायेज्जगद्वेद्यां श्रियं संपत्तिदायिनीम्
हिरण्मयामृतघटैः सिच्यमानां सरोजगाम्
सिद्धलक्षं जपेन्मन्त्रं तत्सहस्रं हुनेत्तथा
महालक्ष्म्युदिते पीठे मूर्तिं मूलेन कल्पयेत्
वासुदेवं संकर्षणं प्रद्युम्नमनिरुद्धकम्
शङ्खचक्रगदापद्मधारिणस्तांश्चतुर्भुजान्
दमकं पुण्डरीकं च गुग्गुलं च कुरण्टकम्
मुक्तामाणिक्यसंकाशौ किञ्चित्स्मितमुखांबुजौ
विगलद्रत्नवर्षाभ्यां शङ्खभ्या मूर्ध्नि लाञ्छितौ
वामतः पङ्कजनिधिं प्रियया सहितं यजेत्
निःसरद्रत्नवर्षाभ्यां पद्माभ्यां मूर्ध्नि लाञ्छितौ
दलाग्रेषु यजेदेताबलाक्याद्याः समन्ततः
विभीषिका मालिका च शाङ्करी वसुमालिका
लोकेशान्पूजयेदन्ते वज्राद्यास्त्राणि तद्बहिः
धनधान्यसमृद्धः स्याच्छ्रियमाप्नोत्यनिन्दिताम्
त्रिलक्षमर्कगं ध्यायन्स भवेत्कमलालयः
साधको यः स लभते वाञ्छितं धनसंचयम्
होमेनखादिरे वह्नौ तण्डुलेर्मधुरोक्षितैः