अनङ्गकुसुमा पश्चाद्द्वितीयानङ्गमेखला
भुवनपाला गगनवेगा षष्ठी चैव ततः परम्
खड्गखेटकधारिण्यः श्यामाः पूज्याश्च मातरः
प्रथमानङ्गद्वयास्यादनङ्गमदना ततः
स्यात्सर्वशिशिरानङ्गवेदनानङ्गमेखला
चामरे चांशुकं पुष्पं बिभ्राणाः करपङ्कजैः
वज्रादीन्यपि तद्बाह्ये देवीमित्थं प्रपूजयेत्
ब्राह्मणान्वशयेच्छीघ्रं पार्थिवान्पद्महोमतः
पञ्चविंशतिधा जप्तैर्जलैः स्नानं दिने दिने
पञ्चविंशतिधा जप्तं जलं प्रातः पिबेन्नरः
कर्पूरागरुसंयुक्तकुङ्कुमं साधु साधितम्
शालिपिष्टमयीं कृत्वा पुत्तलीं मधुरान्विताम्
वशं नयति राजानं नारीं वा नरमेव च
त्रिसहस्रं जपेन्मन्त्रं कन्यामिष्टां लभेत्ततः
लिखितां भस्मना मायां ससाध्यां फलकादिषु
भुवनेशीयमाख्याता सहस्रभुजसंभवा
ततः कल्पान्तरे विप्र कदाचिन्महिषासुरः
ततस्त्पीडिता देवा वैकुण्ठं शरणं ययुः
श्रीर्बभूवमुनिश्रेष्ठ मूर्ता व्याप्तजगत्त्रया
अरविन्दवनं प्राप्ता भजतामिष्टदायिनी
मृत्युक्रोधेन गुरुणा बिन्दुभूषितमस्तका
ऋषिर्भृगुर्निवृच्छन्दो देवता श्रीः समीरिता
ततो ध्यायेज्जगद्वेद्यां श्रियं संपत्तिदायिनीम्
हिरण्मयामृतघटैः सिच्यमानां सरोजगाम्
सिद्धलक्षं जपेन्मन्त्रं तत्सहस्रं हुनेत्तथा
महालक्ष्म्युदिते पीठे मूर्तिं मूलेन कल्पयेत्
वासुदेवं संकर्षणं प्रद्युम्नमनिरुद्धकम्
शङ्खचक्रगदापद्मधारिणस्तांश्चतुर्भुजान्
दमकं पुण्डरीकं च गुग्गुलं च कुरण्टकम्
मुक्तामाणिक्यसंकाशौ किञ्चित्स्मितमुखांबुजौ