मूलेन व्यापकं देहे न्यस्य देवीं विचिन्तयेत्
स्मरास्यामिन्दुमुकुटां वरपाशाङ्कुशाभयाम्
अष्टद्रव्यैर्दशांशेन ब्रह्मवृक्षसमिद्वरैः
तन्दुलाज्यतिलं विप्र द्रव्याष्टकमुदाहृतम्
पद्ममष्टदलं बाह्ये वृत्तं षोडशभिर्द्दलैः
ततः संपूजयेत्पीठं नवशक्तिसमन्वितम्
नित्या विलासिनी गोग्धीत्यघोरा मङ्गला नव
तस्यां संपूजयेद्देवीमावाह्यावरणैः क्रमात्
षट्कोणेषु यजेन्मन्त्री पश्चान्मिथुनदेवताः
गायत्रीं पूजयेन्मत्री ब्रह्माणमपि तादृशम्
सावित्रीं पीतवसनां यजेद्विणुं च तादृशम्
यजेत्सरस्वतीमच्छां रुद्रं तादृशलक्षणम्
कराभ्यां बिभ्रतीं पीतां तुन्दिलं धनदायकम्
धनदाङ्कसमारूढां महालक्ष्मीं प्रपूजयेत्
धारयन्तं जपारक्तं पूजयेद्रक्तभूषणम्
पाणिना रमणाङ्कस्थां रतिं सम्यक्समर्चयेत्
सृणिपाशधरं कान्तं वराङ्गासृक्कलाङ्गुलिम्
पुष्करे विगलद्रत्नस्फुरच्चषकधारिणम्
धृतरक्तोत्पलामन्यपाणिना तु ध्वजस्पृशाम्
कर्णिकायां निधी पूज्यौ षट्कोणस्याथ पार्श्वयोः
अनङ्गकुसुमा पश्चाद्द्वितीयानङ्गमेखला
भुवनपाला गगनवेगा षष्ठी चैव ततः परम्
खड्गखेटकधारिण्यः श्यामाः पूज्याश्च मातरः
प्रथमानङ्गद्वयास्यादनङ्गमदना ततः
स्यात्सर्वशिशिरानङ्गवेदनानङ्गमेखला
चामरे चांशुकं पुष्पं बिभ्राणाः करपङ्कजैः
वज्रादीन्यपि तद्बाह्ये देवीमित्थं प्रपूजयेत्
ब्राह्मणान्वशयेच्छीघ्रं पार्थिवान्पद्महोमतः
पञ्चविंशतिधा जप्तैर्जलैः स्नानं दिने दिने
पञ्चविंशतिधा जप्तं जलं प्रातः पिबेन्नरः