संध्ययोः प्रत्यहं भक्त्या जपकाले विशेषतः
भूतिदा भुवना वाणी महावसुमती मही
यशस्विनी सती सत्या वेदविच्चिन्मयी शुभा
मोदा देवी वरिष्ठा च धीश्च शान्तिर्मती मही
दया च यामिनी पद्मा रोहिणी रमणी जया
माया प्रज्ञा परा दोग्ध्री मानिनी पोषिणी क्रिया
ब्राह्मी हैमी भुजङ्गी च वशिनी सुंदरी वनी
माया स्वधा रमा तन्वी रिपुघ्नी रक्षणणी सती
अमरा तीर्थदा दीक्षा दुर्धर्षा रोगहारिणी
योगिनी वमला सत्या अबला बलदा जया
अचिरा वृष्टिदा ज्ञेया ऋततन्त्रा ऋतात्मिका
द्विपदा या चतुष्पदा त्रिपदा या च षट्पदा
अष्टोत्तरशतं नाम्नां सावित्र्या यः पठेन्नरः
एतत्ते कथितं विप्र पञ्चप्रकृतिलक्षणम्
मन्त्राराधनपूर्वं च विश्वकामप्रपूरणम्
लोकपद्मे तपस्थस्य सृष्ट्यर्थं संबभूवतुः
तौ जातमात्रौ पयसि लोकप्रलयलक्षणे
प्रवृत्तावत्तुमालक्ष्य तुष्टाव जगदंबिकाम्
नारायणाक्षिसंस्थाना निद्रा प्रीता बभूव ह
सारुणा क्रोधनी शान्तिश्चन्द्रालङ्कृतशेखरा
गायत्री च भवेच्छन्दो देवता भुवनेश्वरी
संहारसृष्टिमार्गेण मातृकान्यस्तविग्रहः
हृल्लेखां मूर्ध्नि वदने गगनां हृदयांबुजे
ऊर्द्ध्वप्राग्दक्षिणोदीच्यपश्चिमेषूत्तरे ऽपि च
अङ्गानि विन्यसेत्पश्चाज्जातियुक्तानि षट् क्रमात्
सावित्र्या सहितं विष्णुं कपोले दक्षिणे न्यसेत्
श्रिया धनपतिं न्यस्य वामकर्णाग्रके पुनः
सव्यकर्णोपरि निधाकर्णगण्डान्तरालयोः
कण्ठमूले स्तनद्वन्द्वे वामांसे हृदयांबुजे
भालांश्च पार्श्वजठरे पार्श्वांसापरके हृदि