तज्जलं पावनं श्रेष्ठं ब्रह्मादीन्पावयत्सुरान्
सत्पर्षिसेवितं चैव न्यपतन्मेरुमूर्द्धनि
ऋषयो मनवश्चैव ह्यस्तुवन्हर्षविह्वलाः
ब्रह्मात्मने ब्रह्मरतात्मबुद्धये नमो ऽस्तु ते ऽव्याहतकर्मशीलिने
सर्वात्मने जगन्मूर्त्ते प्रमाणातीत ते नमः
विश्वतः शिरसे चैव विश्वतो गतये नमः
दत्त्वाभयं च मुमुदे देवदेवः सनातनः
ददौ तद्वारपालश्च भक्तवश्यो बभूव ह
किं भोज्यं कल्पयामास घोरे सर्पभयाकुले
अपात्रे दीयते यच्च तद्धोरं भोगसाधनम्
तत्सर्वं तत्र भोगार्हमधः पातफलप्रदम्
दत्त्वाभयं च सर्वेषां सुराणां त्रिदिवं ददौ
गन्धर्वैर्गीयमानश्च पुनर्वामनतां गतः
परस्परे स्मितमुखाः प्रणेभुः पुरुषोत्तमम्
मोहयन्निखिलं लोकं प्रपेदे तपसे वनम्
यस्याः स्मरणमात्रेण मुच्यते सर्वपातकैः
देवालये नदीतीरे सो ऽश्वमेधफलं लभेत्
अधुना लक्षणं ब्रूहि भ्रातर्मे दानपात्रघयोः
तस्मै तानानि देयानि दत्तस्यानन्त्यमिच्छता
न कदापि क्षत्रविशो गृह्णीयातां प्रतिग्रहम्
स्वकर्मत्यागिनश्चापि दत्तं भवति निष्फलम्
नक्षत्रसूचकस्यापि दत्तं भवति निष्फलम्
अयाज्ययाजकस्यापि दत्तं भवति निष्फलम्
धर्मविक्रयिणो विप्र दत्तं भवति निष्फलम्
परोपतापिनश्चापि दत्तं भवति निष्फलम्
धावको वा भवेत्तेषां दत्तं भवति निष्फलम्
अभक्ष्य भक्षकस्यापि दत्तं भवति निष्फलम्
पैंश्वलान्नभुजश्चापि दत्तं भवति निष्फलम्
दुष्प्रतिग्रहदग्धस्य दत्तं भवति निष्फलम्
सध्याभोजिन एवापिदत्तं भवति निष्फलम्