सर्वपापुविनिर्मुक्तो दीर्घमायुः स विन्दति
महालक्ष्मीर्भवेत्तस्य षण्मासान्नात्र संशयः
बहुना किमिहोक्तेन यथावत्साधिता सती
अथ ते संप्रवक्ष्यामि रहस्यं परमाद्भुतम्
व्योमकेशार्लकासक्तां सुकिरीटविराजिताम्
गुरुभार्गवकर्णान्तां सोमसूर्याग्निलोचनाम्
संध्याद्विजोष्ठपुटितां लसद्वागुपजिह्विकाम्
पर्जन्यदृदयासक्तां वस्वाख्यप्रतिमण्डलाम्
प्रजापत्याख्यजघनां कटीन्द्राणीसमाश्रिताम्
सुजानुजहुकुशिकां वैश्वदेवाख्यसंज्ञिकाम्
ग्रहराश्यर्क्षयोगादिमूर्तावयवसंज्ञिकाम्
मायाकल्पितवैचित्र्यसंध्याख्यच्छदनावृताम्
कोटिसूर्यप्रतीकाशां शशिकोटिसुशीतलाम्
वागतीतां मनो ऽगर्म्या वरदां वेदमातरम्
ध्यात्वा स्वात्माविभेदेन सावित्रीपञ्जरं न्यसेत्
देवता च परो हंसः परब्रह्मादिदेवता
षडङ्गदेवतामन्त्रैरङ्गन्यासं समाचरेत्
पूर्वोक्तां देवातां ध्यायेत्साकारां गुणसंयुताम्
चतुर्विशतितत्त्वाढ्या पातु प्राचीं दिशं मम
षड्विंशतत्त्वसंयुक्ता पातु मे दक्षिणां दिशम्
पातु प्रतीचीमनिशं मम ब्रह्मशिराएङ्किता
उदीचीं षट्पदा पातु षष्टितत्त्वकलात्मिका
व्योमा संपातु मे वोर्द्ध्वशिरो वेदान्तसंस्थिता
चापेषुचर्मासिधरा पातु मे पावकीं दिशम्
बिभ्रत्कमण्डलुं चाक्षं स्रुवस्रुवौ पातु नैरृतिम्
कपालशूलकाक्षस्रग्धारिणी पातु वायवीम्
शङ्खचक्राभयकरा पातु शैवीं दिशं मम
वराभयखड्गचर्मभुजा पात्वधरां दिशम्
स्वस्वदिक्षुस्थिताः पातुं ग्रहशक्त्यङ्गसंयुताः
व्यापकत्वेन पान्त्वस्मानापादतलमस्तकम्