महासरस्वती चास्य देवता परिकीर्तिता
ब्रह्मरन्ध्रे न्यसेत्तारं लज्जां भ्रूमध्यगां न्यसेत्
ततो वाग्देवतां ध्यायेद्वीणापुस्तकधारिणीम्
हंसाधिरूढां भालेन्दुदिव्यालङ्कारशोभिताम्
नागचंपकपुष्पैर्वा जुहुयात्साधकोत्तमः
वर्णाब्जेनासनं दद्यान्मूर्तिं मूलेन कल्पयेत्
प्राकृता वामतः पूज्या वाङ्मयीसर्वसिद्धिदा
प्रज्ञा मेधा श्रुतिः शक्तिः स्मृतिर्वागीश्वरी मतिः
लोकेशानर्चयेद्भूयस्तदस्त्राणि च तद्बहिः
ब्रह्मचर्यरतः शुद्धः शुद्धदन्तनखा दिकः
कवित्वं लभते धीमान् मासैर्द्वादशभिर्ध्रुवम्
महाकविर्भवेन्मन्त्री वत्सरेण न संशयः
स्थितां देवीं प्रतिदिनं त्रिसहस्रं जपेन्मनुम्
पालाशबिल्वकुसुमैर्जुहुयान्मधुरोक्षितैः
राजवृक्षसमुद्भूतैः प्रसूनैर्मधुराप्लुतैः
अथ प्रवक्ष्ये विप्रेन्द्र सावित्रीं ब्रह्मणः प्रियाम्
लक्ष्मी माया कामपूर्वा सावित्री ङेसमन्विता
ऋषिर्ब्रह्मास्य गायत्री छन्दः प्रोक्तं च देवता
हृदन्तिकैर्ब्रह्म विष्णुरुद्रेश्वरसदाशिवैः
तप्तकाञ्चनवर्णाभां ज्वलन्तीं ब्रह्मतेजसा
ईषद्धास्यप्रसन्नास्यां रत्नभूषणभूषिताम्
सुखदां मुक्तिदां चैव सर्वसंपत्प्रदां शिवाम्
ध्यात्वैवं मण्डले विद्वान् त्रिकोणोज्ज्वलकर्णिके
मूलमन्त्रेण कॢप्तायां मूर्तौं देवीं प्रपूजयेत्
आदित्याद्यास्ततः पूज्या उषादिसहिताः क्रमात्
प्रह्लादिनीं प्रभां पश्चान्नित्यां विश्वंभरां पुनः
कान्तिं दुर्गासरस्वत्यौ विद्यारूपां ततः परम्
तमोपहारिणीं सूक्ष्मां विश्वयोनिं जयावहाम्
ब्राह्म्याद्याः शारणा बाह्ये पूजयेत्प्रोक्तलक्षणाः
इत्थमावरणैर्देवीः दशभिः परिपूजयेत्