ऋषिः स्याद्वामदेवो ऽस्य छन्दो गायत्रमीरितम्
ताराद्येकैकवर्णेन हृदयादित्रयं मतम्
महामरकतप्रख्यां सहस्रभुजमण्डिताम्
कङ्कणाङ्गदहाराढ्यां क्वणन्नूपुरकान्विताम्
किरीटकुण्डलधरां दुर्गां देवीं विचिन्तयेत्
पयोंऽधसा वा सहस्रं नवपद्मात्मके यजेत्
सुप्रभा विजया सर्वसिद्धिदा पीठशक्तयः
प्रणवो वज्रनखदंष्ट्रायुधाय महापदात्
दद्यादासनमेतेन मूर्तिं मूलेन कल्पयेत्
जया च विजया कीर्तिः प्रीतिः पश्चात्प्रभा पुनः
पत्राग्रेष्वर्चयेदष्टावायुधानि यथाक्रमात्
लोकेश्वरांस्ततो बाह्ये तेषामस्त्राण्यनन्तरम्
कुर्यात्प्रयोगानमुना यथा स्वस्वमनीषितान्
रत्नहेमादिसंयुक्तान्घटेषु नवसु स्थितान्
संपूज्य गन्धपुष्पाद्यैरभिषिञ्चेन्नराधिपम्
प्राप्नोत्रोगो दीर्घायुः सर्वव्याधिविवर्जितः
मन्त्रेणानेन संजप्तमाज्यं क्षुद्रग्रहापहम्
जृंभश्वासे तु कृष्णस्य प्रविष्टेराधिकामुखम्
तस्या विधानं विप्रेन्द्र शृणु लोकोपकारकम्
सरस्वती चतुर्थ्यन्ता स्वाहान्तो द्वादशाक्षरः
महासरस्वती चास्य देवता परिकीर्तिता
ब्रह्मरन्ध्रे न्यसेत्तारं लज्जां भ्रूमध्यगां न्यसेत्
ततो वाग्देवतां ध्यायेद्वीणापुस्तकधारिणीम्
हंसाधिरूढां भालेन्दुदिव्यालङ्कारशोभिताम्
नागचंपकपुष्पैर्वा जुहुयात्साधकोत्तमः
वर्णाब्जेनासनं दद्यान्मूर्तिं मूलेन कल्पयेत्
प्राकृता वामतः पूज्या वाङ्मयीसर्वसिद्धिदा
प्रज्ञा मेधा श्रुतिः शक्तिः स्मृतिर्वागीश्वरी मतिः
लोकेशानर्चयेद्भूयस्तदस्त्राणि च तद्बहिः
ब्रह्मचर्यरतः शुद्धः शुद्धदन्तनखा दिकः