नवशक्तियुते पीठे ह्यङ्गै रावरणैः सह
व्याष्टिरुत्कृष्टिरृद्धिश्च संप्रोक्ता नव शक्तयः
षट् कोणेषु षडङ्गानि दक्षिणे तु गजाननम्
उमां श्रीं भारतीं दुर्गां धरणीं वेदमातरम्
जह्नुसूर्यसुते पूज्ये पादप्रक्षालनोद्यते
धृतातपत्रं वरुणं पूजयेत्पश्चिमे ततः
चतुर्दन्तैरावतादीन् दिग्विदिक्षु ततोर्ऽचयेत्
दूर्वाभिराज्यसिक्ताभिर्जुहुयादायुषे नरः
अषअटोत्तरसहस्रं यः स जीवेच्छरदां शतम्
आरभ्यार्कदिनं मन्त्री दशाहं घृतसंप्लुतः
शालिभिर्जुह्वतो नित्यमष्टोत्तरसहस्रकम्
उषाजा जीनालिकेररजोभिर्गृतमिश्रितैः
मण्डलाज्जायते सो ऽपि कुबेर इव मानवः
जपापुष्पाणि जुहुयादष्टोत्तरसहस्रकम्
चतुर्णामपि वर्णानां मोहनाय द्विजोत्तमः
सम्पदस्तस्य जायन्ते महालक्ष्मीः प्रसीदति
या तु दुर्गा द्विजश्रेष्ठ शिवलोकं गता सती
देवीलोकेति विख्यातं सर्वलोकविलक्षणम्
विविधान् स्वावतारान्हि त्रिकाले कुरुते ऽनिशम्
प्रतिष्ठा स्मृतिसंयुक्ता क्षुधया सहिता पुनः
ऋषिः स्याद्वामदेवो ऽस्य छन्दो गायत्रमीरितम्
ताराद्येकैकवर्णेन हृदयादित्रयं मतम्
महामरकतप्रख्यां सहस्रभुजमण्डिताम्
कङ्कणाङ्गदहाराढ्यां क्वणन्नूपुरकान्विताम्
किरीटकुण्डलधरां दुर्गां देवीं विचिन्तयेत्
पयोंऽधसा वा सहस्रं नवपद्मात्मके यजेत्
सुप्रभा विजया सर्वसिद्धिदा पीठशक्तयः
प्रणवो वज्रनखदंष्ट्रायुधाय महापदात्
दद्यादासनमेतेन मूर्तिं मूलेन कल्पयेत्
जया च विजया कीर्तिः प्रीतिः पश्चात्प्रभा पुनः