सुतपास्तु ऋषिश्छन्दो गायत्री देवता मनोः
षडक्षरैः षडङ्गानि कुर्याद्विन्दुविभूषितैः
श्वेतचंपकवर्णाभां कोटिचन्द्रसमप्रभाम्
सुश्रोणीं सुनितंबां च पक्वबिंबाधरांबराम्
रत्नकेयूरवलयहारकुण्डलशोभिताम्
रासमण्डलमध्यस्थां रत्नसिंहासनस्थिताम्
लक्षषट्कं जपेन्मन्त्रं तद्दशांशं हुनेत्तिलैः
षट्कोणेषु षडङ्गानि तद्बाह्ये ऽष्टदले यजेत्
ततः शशिकलां पारिजातां पद्मावतीं तथा
इन्द्राद्यान्सायुधानिष्ट्वा विनियोगांस्तु साधयेत्
निर्गुणा कृष्णपूज्या च मूलप्रकृतिरीश्वरी
पूर्वाद्याशासु रक्षन्तु पान्तु मां सर्वतः सदा
कृष्णमायादिदेवी च कृष्णप्राणाधिके शुभे
इति सम्प्रार्थ्य सर्वेशीं स्तुत्वा हृदि विसर्जयेत्
भुक्त्वेह भोगानखिलान्सो ऽन्ते गोलोकमाप्नुयात्
यदाराधनतो भूयात्साधको भुक्तिमुक्तिमान्
ङेंता वह्निप्रियान्तो ऽयं मन्त्रकल्पद्रुमः परः
देवता तु महालक्ष्मीर्द्विद्विवर्णैः षडङ्गकम्
ईषद्धास्यप्रसन्नास्यां भक्तानुग्रहकातराम्
ध्यात्वा जपेदर्कलक्षं पायसेन दशांशतः
नवशक्तियुते पीठे ह्यङ्गै रावरणैः सह
व्याष्टिरुत्कृष्टिरृद्धिश्च संप्रोक्ता नव शक्तयः
षट् कोणेषु षडङ्गानि दक्षिणे तु गजाननम्
उमां श्रीं भारतीं दुर्गां धरणीं वेदमातरम्
जह्नुसूर्यसुते पूज्ये पादप्रक्षालनोद्यते
धृतातपत्रं वरुणं पूजयेत्पश्चिमे ततः
चतुर्दन्तैरावतादीन् दिग्विदिक्षु ततोर्ऽचयेत्
दूर्वाभिराज्यसिक्ताभिर्जुहुयादायुषे नरः
अषअटोत्तरसहस्रं यः स जीवेच्छरदां शतम्
आरभ्यार्कदिनं मन्त्री दशाहं घृतसंप्लुतः