सनत्कुमारमप्याह प्रणम्य ज्ञानिनां वरम्
तत्रापि कृष्णमन्त्राणां वैभवं ह्युदितं महत्
तस्या अंशावताराणां चरितं मन्त्रपूर्वकम्
शक्तेस्तन्त्राण्यनेकानि शिवोक्तानि मुनीश्वर
तच्छ्रुत्वा वचनं तस्य नारदस्य महात्मनः
शृणु नारद वक्ष्यामि राधांशानां समुद्भवम्
या तु राधा मया प्रोक्ता कृष्णार्द्धाङ्गसमुद्भवा
तेजोमण्डलमध्यस्था दृश्यदृश्यस्वरूपिणी
कृष्णस्य वामभागात्तु जातो नारायणः स्वयम्
ततः कृष्णो महालक्ष्मीं दत्त्वा नारायणाय च
अथ गोलोकनाथस्य गोम्नां विवरतो मुने
प्राणतुल्यप्रियाः सर्वे बभूवुः पार्षदा विभोः
राधातुल्याः सर्वतश्च राधादास्यः प्रियंवदाः
आविर्बभूव सा दुर्गा विष्णुमाया सनातनी
परिपूर्णतमा तेजः स्वरूपा त्रिगुणात्मिका
या तु संसारवृक्षस्य बीजरूपा सनातनी
एतस्मिन्नन्तरे तत्र सस्त्रीकस्तु चतुर्मुखः
कमण्डलुधरो जातस्तपस्वी नाभितो हरेः
निषसादासने रम्ये विभोस्तस्याज्ञया मुने
वामार्द्धाङ्गो महादेवो दक्षार्द्धो गोपिकापतिः
स्तुत्वा कृष्णं समाज्ञप्तो निषसाद हरेः पुरः
सत्यलोके स्थितो नित्यङ्गच्छ मांस्मर सर्वदा
जगाम भार्यया साकं स तु सृष्टिं करोति वै
ततः पश्चात्पञ्चवक्त्रं कृष्णं प्राह महामते
यावत्सृष्टिस्तदन्ते तु लोकान्संहर सर्वतः
ततः कालान्तरे ब्रह्मन्कृष्णस्य परमात्मनः
तामादिदेश भघगवान् वैकुण्ठं गच्छ मानदे
सापि कृष्णं नमस्कृत्य गता नारायणान्तिकम्
आसां पूर्णस्वरूपाणां मन्त्रध्यानार्चनादिकम्
तारः क्रियायुक् प्रतिश्ठा प्रीत्याढ्या च ततः परम्