गोपप्रेष्ठा गोपकन्या गोपनारी सुगोपिका
गोपभूषा कृष्णभूषा श्रीवृन्दावनचन्द्रिका
कृष्णचेष्टा परिज्ञाता कोटिकन्दर्पमोहिनी
कृष्णचन्द्रमनोज्ञा च कृष्णदेवसहोदरी
क्षेमा च मधुरालापा भ्रुवोमाया सुभद्रिका
कृपाकटाक्षा बिंबोष्टी रंभा चारुनितंबिनी
हेमाद्रिकान्तिरुचिरा प्रेमाद्या मदमन्थरा
रासचिन्ता भावचिन्ता शुद्धचन्ता महारसा
कन्दर्पजननी मुख्या वैकुण्ठगतिदायिनी
शुद्धादेहिनी च श्रीरामा रसमञ्जरी
गोमती चन्द्रभागेड्या सरयूस्ताम्रपर्णिसूः
एतन्नामसहस्रं तु युग्मरूपस्य नारद
महापापप्रशमनं वन्ध्यात्वविनिवर्तकम्
पापापहं वैरिहरं राधामाधवभक्तिदम्
राधासंगसुधासिंधौ नमो नित्यविहारिणे
जगल्लयविधात्री च सर्वेशी सर्वसूतिका
भुक्तिमुक्तिप्रदं दिव्यं किं भूयः श्रोतुमिच्छसि
महातन्त्रविधानं नः कुमारोक्तं त्वयोदितम्
यदिहोदितमस्मभ्यं त्वयातिकरुणात्मना
भूयः पप्रच्छ किं साधो कुमारं विदुषां वरम्
सनत्कुमारमप्याह प्रणम्य ज्ञानिनां वरम्
तत्रापि कृष्णमन्त्राणां वैभवं ह्युदितं महत्
तस्या अंशावताराणां चरितं मन्त्रपूर्वकम्
शक्तेस्तन्त्राण्यनेकानि शिवोक्तानि मुनीश्वर
तच्छ्रुत्वा वचनं तस्य नारदस्य महात्मनः
शृणु नारद वक्ष्यामि राधांशानां समुद्भवम्
या तु राधा मया प्रोक्ता कृष्णार्द्धाङ्गसमुद्भवा
तेजोमण्डलमध्यस्था दृश्यदृश्यस्वरूपिणी
कृष्णस्य वामभागात्तु जातो नारायणः स्वयम्
ततः कृष्णो महालक्ष्मीं दत्त्वा नारायणाय च