माधुर्य्यमधुरा पद्मा पद्महस्ता सुविश्रुता
शेषदेवाशिरस्था च नित्यस्थलविहारिणी
अष्टभाषवती चाष्टनायिका लक्षणान्विता
रजोगुणेश्वरी चैव जरच्चन्द्रनिभानना
हेमपुष्पाधिककरा पञ्चशक्तिमयी हिता
वैराजसूयजननी श्रीशा भुवनमोहिनी
महामोहा महाविद्या महाकीर्र्तिंमहारतिः
महागौरी महासंपन्महाभोगविलासिनी
सुहृद्भक्तिप्रदा स्वच्छा माधुर्यरसवर्षिणी
गोपरामाभघिरामा च क्रीडारामा परेश्वरी
एकानैकजगद्व्याप्ता विश्वलीलाप्रकाशिनी
विष्णुवंशनिवासा च विष्णुवंशसमुद्भवा
आरामस्था वनस्था च सूर्य्यपुत्र्यवगाहिनी
स्वानुभूतिस्थिता व्यक्ता सर्वलोकनिवासिनी
अक्षरापि च कूटस्था महापुरुषसंभवा
शिरीषपुष्पमृदुला गाङ्गेयमुकुरप्रभा
प्रेमपर्यकनिलया तेजोमण्डलमध्यगा
सुधासिंधुसमुल्लासामृतास्यन्दविधायिनी
अचिन्तनगुणग्रामा कृष्णलीला मलापहा
नतव्रता सिंहरीच्छा सुमीर्तिः सुखन्दिता
गोपप्रेष्ठा गोपकन्या गोपनारी सुगोपिका
गोपभूषा कृष्णभूषा श्रीवृन्दावनचन्द्रिका
कृष्णचेष्टा परिज्ञाता कोटिकन्दर्पमोहिनी
कृष्णचन्द्रमनोज्ञा च कृष्णदेवसहोदरी
क्षेमा च मधुरालापा भ्रुवोमाया सुभद्रिका
कृपाकटाक्षा बिंबोष्टी रंभा चारुनितंबिनी
हेमाद्रिकान्तिरुचिरा प्रेमाद्या मदमन्थरा
रासचिन्ता भावचिन्ता शुद्धचन्ता महारसा
कन्दर्पजननी मुख्या वैकुण्ठगतिदायिनी
शुद्धादेहिनी च श्रीरामा रसमञ्जरी