सर्वभूतस्थितावात्मा सर्वलोकनमस्कृता
नगधात्री यशोठात्री महादेवी शुभङ्करी
उत्पलाङ्कारविन्दाङ्का प्रसादाङ्का द्वितीयका
छत्राङ्का विद्युदङ्का च पुष्पमालाङ्कितापि च
कृष्णात्रहारपाका च वृन्दाकुञ्जविहारिणी
पद्मकेसरमध्यस्था संगीतागमवेदिनी
सर्वसत्त्वनिधिः पद्मशङ्खादिनिधिसेविता
सस्वानन्दप्रदा सर्वा सुवर्णलतिकाकृतिः
गोपीसिंधुसकाशाह्वां गोपमण्डपशोभिनी
श्रीकृष्णालिङ्गनरता गोविन्दविरहाक्षमा
बीजत्रयमयी मूर्तिः कृष्णानुग्रहवाञ्छिता
पद्मवृन्दस्थिता हृष्टा त्रिपुरापरिसेविता
दुर्लभा सांद्रसौख्यात्मा श्रेयोहेतुः सुभोगदा
ब्रह्मानन्दा चिदानन्दा ध्यानान्दार्द्धमात्रिका
कृष्णाङ्गभूषणा रत्नभूषणा स्वर्णभूषिता
सद्रत्नकङ्कणयुता श्रीमन्नीलगिरिस्थिता
अशेषरासकुतुका रंभोरूस्तनुमध्यमा
प्रसूनकबरी चित्रा महासिंदूरसुन्दरी
कृष्णाधरसुधा स्वादा श्यामप्रेमविनोदिनी
कुङ्कुमालक्तकस्तूरीमण्डिता चापराजिता
माधुर्य्यमधुरा पद्मा पद्महस्ता सुविश्रुता
शेषदेवाशिरस्था च नित्यस्थलविहारिणी
अष्टभाषवती चाष्टनायिका लक्षणान्विता
रजोगुणेश्वरी चैव जरच्चन्द्रनिभानना
हेमपुष्पाधिककरा पञ्चशक्तिमयी हिता
वैराजसूयजननी श्रीशा भुवनमोहिनी
महामोहा महाविद्या महाकीर्र्तिंमहारतिः
महागौरी महासंपन्महाभोगविलासिनी
सुहृद्भक्तिप्रदा स्वच्छा माधुर्यरसवर्षिणी
गोपरामाभघिरामा च क्रीडारामा परेश्वरी