ब्रह्मरुद्रादिसंराध्या नित्यं कौतूहलान्विता
नित्यवृन्दावनरसा नन्दनन्दनसंयुता
गोरसक्षेपणी शूरा सानन्दानन्ददायिनी
नित्यमाघूर्णिता पूर्णा कस्तूरीतिलकान्विता
कोटिचन्द्रानना गौरी कोटिकोकिलसुस्वरा
अशोकवनसंवासा भाण्डीरवनसङ्गता
अजागम्या भवागम्या गोवर्द्धनकृतालया
शश्वन्मानवती स्निग्धा श्रीकृष्णपरिवन्दिता
देवद्रुमफला सेव्या वृन्दावनरसालया
कोटियोगसुदुष्प्राप्या कोटियज्ञदुराश्रया
कोटिमुक्तसुखा सौम्या लक्ष्मीकोटिविलासिनी
त्रिवेदज्ञा त्रिलोकज्ञा तुरीयान्तनिवासिनी
देवाराध्या पराराध्या ब्रह्माराध्या परात्मिका
कृष्णप्राणार्पिणी भामा शुद्धप्रेमविलासिनी
विश्वाधारा कृपाधारा जीवधारातिनायिका
दिव्यरूपा दिव्यभोगा दिव्यवेषा मुदान्विता
परब्रह्मावृता ध्येया महारूपा महोज्ज्वला
कोमलामृतवागाद्या वेदाद्या वेददुर्लभा
कलाषोडशसंपूर्णा कृष्णदेहार्द्धधारिणी
कृष्णकान्ता कृष्णधना कृष्णमोहनकारिणी
सर्वभूतस्थितावात्मा सर्वलोकनमस्कृता
नगधात्री यशोठात्री महादेवी शुभङ्करी
उत्पलाङ्कारविन्दाङ्का प्रसादाङ्का द्वितीयका
छत्राङ्का विद्युदङ्का च पुष्पमालाङ्कितापि च
कृष्णात्रहारपाका च वृन्दाकुञ्जविहारिणी
पद्मकेसरमध्यस्था संगीतागमवेदिनी
सर्वसत्त्वनिधिः पद्मशङ्खादिनिधिसेविता
सस्वानन्दप्रदा सर्वा सुवर्णलतिकाकृतिः
गोपीसिंधुसकाशाह्वां गोपमण्डपशोभिनी
श्रीकृष्णालिङ्गनरता गोविन्दविरहाक्षमा