देवर्षिशापहर्ता च द्रौपदीवाक्यपालकः
पार्थदूतः पार्थमन्त्री पार्थदुःखौधनाशनः
पाञ्चाली वस्त्रदाता च विश्वपालकपालकः
सत्यसंधः सत्यरतिः सत्यप्रिय उदारधीः
बाणासुरभुजच्छेत्ता बाणबाहुवरप्रदः
रामस्वरूपधारी च सत्यभामामुदावहः
स्वप्रतिज्ञापरिध्वंसी भीष्माज्ञापरिपालकः
वर्वरीषशिरोहारी वर्वरीषशिरःप्रदः
गोपिकाप्रीतिनिर्बन्धनित्यक्रीडो व्रजेश्वरः
सदामधुवनानन्दी सदावृन्दावनप्रियः
सदागोवर्द्धनरतिः सदा गोकुलवल्लभः
नन्दग्रामकृतावासो वृषभानुग्रहप्रियः
वल्लवीजनसंगोप्ता वल्लवीजनवल्लभः
शिलानुगन्धनिलयः पादचारी घनच्छविः
त्रिपुरारिप्रियकरो ह्युग्रधन्वापराजितः
वज्रनाभपुरध्वंसी पैण्ड्रकप्राणहारकः
शिवसंकटहारी च वृकासुरविनाशनः
गोकर्णपूजकः सांबकुष्ठविध्वंसकारणः
यदुवंशविनाशी च उद्धवोद्धारकारकः
वृन्दावनेश्वरी पुण्या कृष्णमानसहारिणी
ललिता मधुरा माध्वी किशोरी कनकप्रभा
जितरंभा जितपिका गोविन्दहृदयोद्भवा
श्रीकृष्णाकर्षणा देवी नित्यं युग्मस्वरूपिणी
आमोदिनी मोदवती नन्दनन्दनभूषिता
कुञ्जप्रिया कुञ्जवासा कुञ्जनायकनायिका
श्रीकृष्णवेणुसंगीता मुरलीहारिणी शिवा
कृष्णरतिः श्रीकृष्णसहचारिणी
भाण्डीरवासिनी शुभ्रा गोपीनाथप्रिया सखी
श्रीकृष्णप्रार्थनीशाना महानन्दप्रदायिनी
कोटिकन्दर्पलावण्या रतिकोटिरतिप्रदा