उग्रसेनपरित्राता उग्रसेनाभिपूजितः
सर्वसात्वतसाक्षी च यदूनामभिनन्दनः
सर्वगोपालधनदो गोपीगोपाललालसः
गुरुभक्तो ब्रह्मचारी निगमाध्ययने रतः
विद्यानिधिः कलाकोशो मृतपुत्रदस्तथा
यमार्चितः परो देवो नामोच्चारवसो (शो)ऽच्युतः
अक्रूरगृहगोप्ता च प्रतिज्ञापालकः शुभः
मुचुकुन्दप्रियकरोजरासंधपलायितः
लीलाधरः प्रियकरो विश्वकर्मा यशःप्रदः
चैद्यशोकालयः श्रेष्ठो दुष्टराजन्यनाशनः
बलभद्रवचोग्राही मुक्तरुक्मी जनार्दनः
भक्तपक्षी भक्तिवश्यो ह्यक्रूरमणिदायकः
सत्राजित्तनयाकान्तो मित्रविन्दापहारकः
नरका सुरघातीं च लीलाकन्याहरो जयी
वैनतेयी स्वर्गगामी अदित्य कुण्डलप्रदः
पारिजातापहारी च शक्रमानापहारकः
गर्गाचार्यः सत्यगतिर्धर्माधारो धारधरः
पैण्ड्रकप्राणहारी च काशीराजशिरोहरः
जरासंधविदारीं च धर्मनन्दनयज्ञकृत्
विदूरथांसकः श्रीशः श्रीदो द्विविदनाशनः
देवर्षिशापहर्ता च द्रौपदीवाक्यपालकः
पार्थदूतः पार्थमन्त्री पार्थदुःखौधनाशनः
पाञ्चाली वस्त्रदाता च विश्वपालकपालकः
सत्यसंधः सत्यरतिः सत्यप्रिय उदारधीः
बाणासुरभुजच्छेत्ता बाणबाहुवरप्रदः
रामस्वरूपधारी च सत्यभामामुदावहः
स्वप्रतिज्ञापरिध्वंसी भीष्माज्ञापरिपालकः
वर्वरीषशिरोहारी वर्वरीषशिरःप्रदः
गोपिकाप्रीतिनिर्बन्धनित्यक्रीडो व्रजेश्वरः
सदामधुवनानन्दी सदावृन्दावनप्रियः