कोटिकन्दर्पलावण्यो लसन्मकरकुण्डलः
कोटिसागरगाभीर्यः कालकालः सदाशिवः
ब्रह्माण्डकोटिजनको ब्रह्ममोहविनाशकः
गिरिपूजोपदेष्टा च धृतगोवर्द्धनाचलः
सर्वतीर्थाभिषिक्तश्च गोविन्दो गोपरक्षकः
धेनुकारिः प्रलंबारिर्वृषासुरविमर्दनः
गोपगोप्ता धेनुगोप्ता दावाग्निपरिशोषकः
यज्ञपत्न्यन्नभोजी च मुनिमानापहारकः
गन्धर्वशापमोक्ता च शङ्खचूडशिरोहरः
सर्वगोप्ता समाह्वानः सर्वगोपीमनोरथः
रासक्रीडारसास्वादी रसिको राधिकाधवः
सर्वगोपीजनानन्दी गोपीजनविमोहनः
गोपीस्कन्धाश्रितकरो गोपिकाचुंबनप्रियः
गोपिकाकेशसंस्कारी गोपिकापुष्पसंस्तरः
गोपिकामदहारी च गोपिकापरमार्जितः
गोपिकावन्दितपदो गोपिकावशवर्तनः
कुञ्जप्रियः कुञ्जवासी वृन्दावनविकासनः
शशिसंस्तंभनः शूरः कामी कामविमोहनः
कामदः कामरूपश्च कामिनीकामसंचयः
परमात्मा पराधीशः सर्वकारणकारणः (म्)
अक्रूरवन्दितपदो गोपिकातोषकारकः
अक्रूरतापशमनो रजकायुःप्रणाशनः
कंसवस्त्रपरीधानो गोपवस्त्रप्रदायकः
तन्तुवाय कसंप्रीतः कुब्जाचन्दनलेपनः
सर्वज्ञो मथुरालोकी सर्वलोकाभिनन्दनः
सर्वदुःखप्रशमनो धनुभर्ङ्गी महोत्सवः
कल्परूपधरोधीरो दिव्यवस्त्रानुलेपनः
कंसत्रासकरो भीमो मुष्टिकान्तश्च कंसहा
वैकुण्ठवासी कंसारिः सर्वदुष्टनिषूदनः
यादवेन्द्रः सतांनाथो यादवारिप्रमर्द्दनः