आशा दासी येषां तेषां दासायते लोकः
तस्मिन्नाशाख्यरिपुणा माने नष्टे दरिद्रता
नैष्किञ्चन्यमहाग्राहग्रस्तानां को विमोचचकः
तत्रापि पुत्रभार्याणां बाहुल्यमतिदुःखदम्
अन्यमैश्वर्यदं धर्मं मनसाचिन्तयत्तदा
दानेन यो ऽनुमन्ताति स एव कृतवान्पुरा
दानानामुत्तमं दानं भूदानं परिकीर्तितम्
इति निश्चत्य मतिमान्धीरो भद्रमतिर्बले
सुघोषनामविप्रेन्द्रं सर्वैश्वर्यसमन्वलितम्
सुघोषो धर्मनिरतस्तं निरीक्ष्य कुटुम्बिक्रम्
कृतार्थो ऽहं भद्रमते सफलं मम जन्म च
इत्युक्त्वा तं समभ्यर्च्य सुघोषो धर्मतत्परः
पृथिवी वैष्णवी पुण्या पृथिवीं विष्णुपालिता
मन्त्रेणानेन दैत्येन्द्र सुघोषस्तं द्विजोत्तमम्
सो ऽपि भद्रमतिर्विप्रो धीमता याचितां भुवम्
सुघोषो भूमिदानेन कोटिवंशसमन्वितः
बले भद्रमतिश्चापि यतः प्रार्थितवाञ्छ्रियम्
तथैव ब्रह्मसदने स्थित्वा कोटियुगायुतम्
ततो भुवं समासाद्य सर्वैश्वर्यसमन्वितः
ततो भद्रमतिर्दैत्य निष्कामो विष्णुतत्परः
तस्य विष्णुः प्रसन्नात्मा तत्त्वैशअवर्यमनुत्तमम्
तस्माद्दैत्यपते मह्यं सर्वधर्मपरायण
वैरोचनिस्ततो दृष्टः कलशं जलपूरितम्
विष्णुः सर्वगतोज्ञात्वा जलधारावरोधिनम्
दर्भाग्रे ऽभून्महाशास्त्रं कोटिसूर्यसमप्रभम्
आयाय भार्गवसुरानसुरानेकचक्षुषा
बलिर्ददौ महाविष्णोर्महीं त्रिपदसंमिताम्
अमिमीत महीं द्वाभ्यां पद्भ्यां विश्वतनुर्हरिः
पादाङ्कुष्टाग्रनिर्भिन्नं ब्रह्माण्डं विभिदे द्विधा
धौतविष्णुपदं तोयं निर्मलं लोकपावनम्