राधिकायाः सुशीलाद्याः सख्यो द्वात्रिंशदीरिताः
रूपयौवनसंपन्नां किशोरीं च स्वलङ्कृताम्
तत्सेवनसुखाह्लादभावेनातिसुनिर्वृताम्
तावत्परिचरेत्तौ तु यथाकालानुसेवया
एतसाधनमुद्दिष्टं प्रपन्नानां मुनीश्वर
ततस्त्वं नारद पुनः पृष्टवान्वै सदाशिवम्
ध्यात्वा वृन्दावने रम्ये यमुनातीरसंगतम्
पठेन्नामसहस्रं तु युगलाख्यं महामुने
गदाग्रजः कंसमोहः कंससेवकमोहनः
मातृस्तुतः शिवध्येयो यमुनाजलभेदनः
लीलाबालः पद्मनेत्रो गोकुलोत्सव ईश्वरः
बकप्राणहरो विष्णुर्बकमुक्तिप्रदो हरिः
पद्मनाभो हृषीकेशः क्रीडामनुजबालकः
यशोदानन्दनः कान्तो मुनिकोटिनिषेवितः
रमापतिर्यदुपतिर्मुरारिर्मधुसूदनः
बृहद्वनमहालीलो नन्दसूनुर्महासनः
त्रैलोक्यवक्त्रः पद्माक्षः पद्महस्तः प्रियङ्करः
अजाध्यक्षः शिवाध्यक्षो धर्माध्यक्षो महेश्वरः
गोपीकरावलंबी च गोपबालकसुप्रियः
गोपीगृहाङ्गणरतिर्भद्रः सुश्लोकमङ्गलः
बालवृन्दी मर्कवृन्दी चकिताक्षः पलायितः
दामोदरो ऽप्रमेयात्मा दयालुर्भक्तवत्सलः
वृक्षभङ्गी शोकभङ्गी धनदात्मजमोक्षणः
व्रजकोलाहलकरो व्रजानदविवर्द्धनः
वत्सपालो वत्सपतिर्गोपदारकमण्डनः
पीताम्बरो हेममाली मणिमुक्ताविभूषणः
वत्सासुरपतिध्वंसी बकासुरविनाशनः
आद्य आत्मप्रदः संगी यमुनातीरभोजनः
कृतहस्ततलग्रासो व्यञ्जनाश्रितशाखिकः
मयूरपिच्छमुकुटो वनमालाविभूषितः