आयुष्यकं तथा कृष्णः स्वयमेव करिष्यति
श्रीमदर्चावतारेण कृष्णं परिचरेत्सदा
स्थेयं च देहगेहादावुदासीनतया बुधैः
वेदनिन्दां हरेर्नामबलात्पापसमीहनम्
अलसे नास्तिके चैव हरिनामोपदेशनम्
संत्यजेद् दूरतो वत्स दोषानेतान्सुदारुणान्
स एव पालनं नित्यं करिष्यति ममेति च
कृष्णकान्तेति चैवास्मि युवामेव गतिर्मम
सर्वे नित्या मुनिश्रेष्ठ चिन्तनीया महात्मभिः
गोचारणं वयस्यैश्च विनासुरविघातनम्
राधिकायाः सुशीलाद्याः सख्यो द्वात्रिंशदीरिताः
रूपयौवनसंपन्नां किशोरीं च स्वलङ्कृताम्
तत्सेवनसुखाह्लादभावेनातिसुनिर्वृताम्
तावत्परिचरेत्तौ तु यथाकालानुसेवया
एतसाधनमुद्दिष्टं प्रपन्नानां मुनीश्वर
ततस्त्वं नारद पुनः पृष्टवान्वै सदाशिवम्
ध्यात्वा वृन्दावने रम्ये यमुनातीरसंगतम्
पठेन्नामसहस्रं तु युगलाख्यं महामुने
गदाग्रजः कंसमोहः कंससेवकमोहनः
मातृस्तुतः शिवध्येयो यमुनाजलभेदनः
लीलाबालः पद्मनेत्रो गोकुलोत्सव ईश्वरः
बकप्राणहरो विष्णुर्बकमुक्तिप्रदो हरिः
पद्मनाभो हृषीकेशः क्रीडामनुजबालकः
यशोदानन्दनः कान्तो मुनिकोटिनिषेवितः
रमापतिर्यदुपतिर्मुरारिर्मधुसूदनः
बृहद्वनमहालीलो नन्दसूनुर्महासनः
त्रैलोक्यवक्त्रः पद्माक्षः पद्महस्तः प्रियङ्करः
अजाध्यक्षः शिवाध्यक्षो धर्माध्यक्षो महेश्वरः
गोपीकरावलंबी च गोपबालकसुप्रियः
गोपीगृहाङ्गणरतिर्भद्रः सुश्लोकमङ्गलः