त्वया पृष्टो महादेवो रहस्यं स्वप्रकाशितम्
ततस्तदन्ते तु पुनस्त्वया विज्ञापितो हरः
गोपीजनपदस्यान्ते वल्लभेति पदं ततः
मन्त्रस्यास्य ऋषिः प्रोक्तो सुरभिश्छन्द एव च
प्रपन्नो ऽस्मीति तद्भक्तौ विनियोग उदाहृतः
केवलं चिन्तनं सद्यो नित्यलीलाप्रकाशकम्
आभ्यन्तरस्य धर्मस्य साधनं वच्मि सांप्रतम्
कृपां तदीयां निजधर्मसंस्थो विभावयन्नात्मनि तोषयेद्गुरुम्
ऐहिकामुष्मिकीचिन्ताविधुरान् सिद्धिदायकान्
भर्त्सनादिकमेतेषां न कदाचिद्विचिन्तयेत्
आयुष्यकं तथा कृष्णः स्वयमेव करिष्यति
श्रीमदर्चावतारेण कृष्णं परिचरेत्सदा
स्थेयं च देहगेहादावुदासीनतया बुधैः
वेदनिन्दां हरेर्नामबलात्पापसमीहनम्
अलसे नास्तिके चैव हरिनामोपदेशनम्
संत्यजेद् दूरतो वत्स दोषानेतान्सुदारुणान्
स एव पालनं नित्यं करिष्यति ममेति च
कृष्णकान्तेति चैवास्मि युवामेव गतिर्मम
सर्वे नित्या मुनिश्रेष्ठ चिन्तनीया महात्मभिः
गोचारणं वयस्यैश्च विनासुरविघातनम्
राधिकायाः सुशीलाद्याः सख्यो द्वात्रिंशदीरिताः
रूपयौवनसंपन्नां किशोरीं च स्वलङ्कृताम्
तत्सेवनसुखाह्लादभावेनातिसुनिर्वृताम्
तावत्परिचरेत्तौ तु यथाकालानुसेवया
एतसाधनमुद्दिष्टं प्रपन्नानां मुनीश्वर
ततस्त्वं नारद पुनः पृष्टवान्वै सदाशिवम्
ध्यात्वा वृन्दावने रम्ये यमुनातीरसंगतम्
पठेन्नामसहस्रं तु युगलाख्यं महामुने
गदाग्रजः कंसमोहः कंससेवकमोहनः
मातृस्तुतः शिवध्येयो यमुनाजलभेदनः