ध्यात्वा कृष्णं लभेत्कन्यां वाञ्छितां चापि नारद
वासुदेवाय वर्मास्त्रे स्वाहान्तो मनुरीरितः
वर्म बीजं शिरः शक्तिरन्यत्सर्वं दशार्णवत्
अत्रिर्व्यासाय हृदयं मनुरष्टाक्षरो ऽवतु
आद्यं बीजं नमः शक्तिदीर्घाढ्यो नादिनाङ्गकम्
विप्रव्रातवृतं प्रसन्नमनसं पाथोरुहाङ्गद्युतिं पाराशर्य्यमतीव पुण्यचरितं व्यासं स्मरेत्सिद्धये
पूर्वोक्तपीठे व्यासस्य पूर्वमङ्गानि पूजयेत्
सुमंप्तुं कोणभागेषु श्रीशुकं रोमहर्षणम्
एवं सिद्धमनुर्मन्त्री कवित्वं शोभनाः प्रजाः
नृसिंहो माधवो दृष्टो लोहितो निगमादिमः
अनन्तपङ्क्तिपक्षीन्द्रा मुनिश्छन्दः सुरा मताः
ज्वलज्वल महामन्त्री स्वाहा हृदयमीरितम्
शिरोमन्त्रो गरुडतः शिखे स्वाहा शिखा मनुः
प्रभेदययुगं पश्चाद्वित्रासय विमर्दय
उग्ररूपधरान्ते तु सर्वविषहरेति च
भस्मीकुरु ततः स्वाहा नेत्रमन्त्रो ऽयमीरितः
शासनान्ते तथा हुं फट् स्वाहास्त्रमनुरीरितः
पादे कटौ हृदि मुखे मूर्ध्निं वर्णान्प्रविन्यसेत्
चञ्च्वग्रप्रचलद्भुजङ्गमभयं पाण्योर्वरं बिभ्रतं पक्षोच्चारितसामगीतममलं श्रीपक्षिराजं भजे
पूजयेन्मातृकापीठे गरुडं वेदविग्रहम्
दृष्ट्वाङ्गं कर्णिकामध्ये नागान्यन्त्रेषु पूजयेत्
देहान्ते लभते चापिश्रीविष्णोः परमं पदम्
प्राप्तं भगवतः साक्षाच्छूलिनो युगलात्मकम्
इत्युक्तो नारदो विप्राः कुमारेण तु धीमता
ततश्चिरं ध्यानपरो नारदो भगवत्प्रियः
भगवन्सर्ववृत्तान्तः पूर्वकल्पसमुद्बवः
तच्छ्रुत्वा वचनं तस्य नारदस्य महात्मनः
शृणु विप्र प्रवक्ष्यामि यस्मिञ्जन्मनि शूलिनः
अस्मात्सारस्वतात्कल्पात्पूर्वस्मिन्पञ्चविंशके
तत्रैकदा त्वं कैलासं प्राप्तः कृष्णस्य योगिनः