कामो बीजं तथायेति शक्तिरस्य ह्युदाहृता
पुरुषोत्तममन्त्रोक्तं सर्वं वास्य प्रकीर्तितम्
तर्पणं सर्वकामाप्त्यै प्रोक्तं संमोहिनीसुमैः
त्रैलोक्यमोहनः शब्दो नमोंऽतो मनुरीरितः
श्रीबीजं शक्तिरापेति बीजेनैव षडङ्गकम्
लक्षं जपस्तथा होम आज्येनैव दशांशतः
एवं कृते तु विप्रेन्द्र साक्षात्स्याच्छ्रीधरः स्वयम्
मन्त्रो ऽस्य शौनकऋषिर्विराट् छन्दः प्रकीर्तितम्
विराट् छन्दः समाख्यातं परब्रह्मात्मको हरिः
शङ्खचक्रधरं देवं चतुर्बाहुं किरीटिनम्
सनकादिमुनीन्द्रैस्तु सर्वदेवैरुपासितम्
प्रातरुद्यत्सहस्रांशुमण्डलोपमकुण्डलम्
अभयं वरदं देवं प्रयच्छन्तं मुदान्वितम्
आद्यावरणसंगैः स्याच्चक्रशङ्खगदासिभिः
सनकादिकशाक्तेयव्यासनारदशौनकैः
लक्षं जपो दशांशेन घृतेन हवनं स्मृतम्
श्रीवृक्षमूले देवेशं ध्यायन्वैरोगिणं स्मरन्
रोगिणां रोगनिर्मुक्तिं कुर्यान्मन्त्री तु मण्डलात्
वस्त्रार्थी गन्धकुसुमैरारोग्याय तिलैर्हुनेत्
अष्टोत्तरसहस्रं वै स ज्वरं नाशयेद् ध्रुवम्
ध्यात्वा कृष्णं लभेत्कन्यां वाञ्छितां चापि नारद
वासुदेवाय वर्मास्त्रे स्वाहान्तो मनुरीरितः
वर्म बीजं शिरः शक्तिरन्यत्सर्वं दशार्णवत्
अत्रिर्व्यासाय हृदयं मनुरष्टाक्षरो ऽवतु
आद्यं बीजं नमः शक्तिदीर्घाढ्यो नादिनाङ्गकम्
विप्रव्रातवृतं प्रसन्नमनसं पाथोरुहाङ्गद्युतिं पाराशर्य्यमतीव पुण्यचरितं व्यासं स्मरेत्सिद्धये
पूर्वोक्तपीठे व्यासस्य पूर्वमङ्गानि पूजयेत्
सुमंप्तुं कोणभागेषु श्रीशुकं रोमहर्षणम्
एवं सिद्धमनुर्मन्त्री कवित्वं शोभनाः प्रजाः
नृसिंहो माधवो दृष्टो लोहितो निगमादिमः