कामिनी मालिनी चैव शोभा चेति प्रकीर्तिताः
पुत्राणामसुरश्रेष्ठ सर्वे नित्यं बुभुक्षिताः
पश्यन्स्वयं क्षुधार्त्तश्च विललापाकुलेन्द्रियः
धिग्जन्म धर्मरहितं धिग्जन्म ख्यातिवर्जितम्
अहो गुणाः सौम्यता च विद्वत्ता जन्म सत्कुले
प्रियाः पुत्राश्चपौत्राश्च बान्धवा भ्रातरस्तथा
चाण्डालो वा द्विजो वापि भाग्यवानेव पूज्यते
अहो संपत्संमायुक्तो निष्टुरो वाप्यनिष्ठुरः
ऐश्वर्यगुणयुक्तश्चेत्पूज्य एव न संशयः
आशाभिभूताः पुरुषा दुःखमश्नुवते ऽक्षयम्
आशा दासी येषां तेषां दासायते लोकः
तस्मिन्नाशाख्यरिपुणा माने नष्टे दरिद्रता
नैष्किञ्चन्यमहाग्राहग्रस्तानां को विमोचचकः
तत्रापि पुत्रभार्याणां बाहुल्यमतिदुःखदम्
अन्यमैश्वर्यदं धर्मं मनसाचिन्तयत्तदा
दानेन यो ऽनुमन्ताति स एव कृतवान्पुरा
दानानामुत्तमं दानं भूदानं परिकीर्तितम्
इति निश्चत्य मतिमान्धीरो भद्रमतिर्बले
सुघोषनामविप्रेन्द्रं सर्वैश्वर्यसमन्वलितम्
सुघोषो धर्मनिरतस्तं निरीक्ष्य कुटुम्बिक्रम्
कृतार्थो ऽहं भद्रमते सफलं मम जन्म च
इत्युक्त्वा तं समभ्यर्च्य सुघोषो धर्मतत्परः
पृथिवी वैष्णवी पुण्या पृथिवीं विष्णुपालिता
मन्त्रेणानेन दैत्येन्द्र सुघोषस्तं द्विजोत्तमम्
सो ऽपि भद्रमतिर्विप्रो धीमता याचितां भुवम्
सुघोषो भूमिदानेन कोटिवंशसमन्वितः
बले भद्रमतिश्चापि यतः प्रार्थितवाञ्छ्रियम्
तथैव ब्रह्मसदने स्थित्वा कोटियुगायुतम्
ततो भुवं समासाद्य सर्वैश्वर्यसमन्वितः
ततो भद्रमतिर्दैत्य निष्कामो विष्णुतत्परः