अर्चा पूर्वोदिते पीठे अङ्गलोकेश्वरायुधैः
तारो माया ततः सांतसेंदुष्वान्तश्च सर्ववान्
पञ्चब्रह्मात्मकस्यास्य मन्त्रस्य मुनि सत्तमः
परञ्ज्योतिः परं ब्रह्म देवता परिकीर्तितम्
स्वाहेति हृदयं प्रोक्तं सो ऽहं वेति शिरो मतम्
प्रणवो नेत्रमाख्यातमस्त्रं हरिहरेति च
स सर्वरूपः सर्वाख्यः सो ऽक्षरः परमः स्वराट्
पूजाप्रणवपीठे ऽस्य सांगावरणकैर्मता
जायते तत्त्वमस्यादिवाक्योक्तं निर्विकल्पकम्
ऋषिर्ब्रह्मास्य गायत्री छन्दो गायत्रमीरितम्
कामो बीजं तथायेति शक्तिरस्य ह्युदाहृता
पुरुषोत्तममन्त्रोक्तं सर्वं वास्य प्रकीर्तितम्
तर्पणं सर्वकामाप्त्यै प्रोक्तं संमोहिनीसुमैः
त्रैलोक्यमोहनः शब्दो नमोंऽतो मनुरीरितः
श्रीबीजं शक्तिरापेति बीजेनैव षडङ्गकम्
लक्षं जपस्तथा होम आज्येनैव दशांशतः
एवं कृते तु विप्रेन्द्र साक्षात्स्याच्छ्रीधरः स्वयम्
मन्त्रो ऽस्य शौनकऋषिर्विराट् छन्दः प्रकीर्तितम्
विराट् छन्दः समाख्यातं परब्रह्मात्मको हरिः
शङ्खचक्रधरं देवं चतुर्बाहुं किरीटिनम्
सनकादिमुनीन्द्रैस्तु सर्वदेवैरुपासितम्
प्रातरुद्यत्सहस्रांशुमण्डलोपमकुण्डलम्
अभयं वरदं देवं प्रयच्छन्तं मुदान्वितम्
आद्यावरणसंगैः स्याच्चक्रशङ्खगदासिभिः
सनकादिकशाक्तेयव्यासनारदशौनकैः
लक्षं जपो दशांशेन घृतेन हवनं स्मृतम्
श्रीवृक्षमूले देवेशं ध्यायन्वैरोगिणं स्मरन्
रोगिणां रोगनिर्मुक्तिं कुर्यान्मन्त्री तु मण्डलात्
वस्त्रार्थी गन्धकुसुमैरारोग्याय तिलैर्हुनेत्
अष्टोत्तरसहस्रं वै स ज्वरं नाशयेद् ध्रुवम्