पृष्ठतः सुरभिं चेष्ट्वा केसरेष्वङ्गपूजनम्
पीठकोणेषु बद्ध्वादिकिङ्कणीं च तथा पुनः
अग्रतो वनमासादिर्दिक्ष्वष्टसु तथा स्थिताः
नन्दगोपो यशोदा च सगोगोपालगोपिकाः
कुमुदः कुमुदाक्षश्च पुण्डरीको ऽथ वामनः
विष्वक्सेनश्च संपूज्यः स्वात्मा चार्च्यस्ततः परम्
स चिरायुर्निरातङ्को धनधान्यपतिर्भवेत्
नाथाय हृदयान्तो ऽयं वसुवर्णो महामनुः
वर्णद्वन्द्वैश्च सर्वेण पञ्चाङ्गान्यस्य कल्पयेत्
किङ्किणीवलयहारनूपुरै रञ्जितं नमत गोपबालकम्
ब्रह्मवृक्षसमिद्भिश्च जुहुयात्पायसेन वा
तत्रावाह्यार्चयेत्कृष्णं मन्त्री वै स्थिरमानसः
वासुदेवं बलं दिक्षु प्रद्युम्नमनिरुद्धकम्
लोकेशान्सायुधान्बाह्ये एवं सिद्धो भवेन्मनुः
श्रीगोविन्दं ततः प्रोच्य गोपीजनपदं ततः
मुन्यादिकं च पूर्वोक्तं सिद्धगोपालकं स्मरेत्
दिव्यक्रीडासु निरतौ रामकृष्णौ स्मरन् जपेत्
चक्री मुनिस्वरोपेतः सर्गी चैकाक्षरो मनुः
सैव ङेंतो युगार्णः स्यात्कृष्णाय नम इत्यपि
गोपालायाग्निजायान्तो रसवर्णः प्रकीर्तितः
कृष्णगोविन्दकौ ङेंतौ सप्तार्णः सर्वसिद्धिदः
कृष्णगोविन्दकौ ङेंतौ हृदन्तो ऽन्यो नवाक्षरः
कामः शार्ङ्गी धरासंस्थो मन्विन्द्वाढ्यश्च मन्मथः
बालान्ते वपुषे कृष्णायाग्निजायान्तिमो ऽपरः
ततो ध्यायन्स्वहृदये गोपीजनमनोहरम्
कालिन्दीपुलिने विहारिणमथो राधैकजीवातुकं वन्दे नन्दकिशोरमिन्दुवदनं स्निग्धांबुदाडंबरम्
देवकीसुतवर्णान्ते गोविन्दपदमुच्चरेत्
देहि मे तनयं पश्चात्कृष्ण त्वामहमीरयेत्
देवः सुतप्रदः कृष्णः पादैः सर्वेण चाङ्गकम्
प्रददत्तनयान् द्विजन्मने स्मरणीयो वसुदेवनन्दनः