दक्षिणे रत्नचषकं वामे सौवर्णनेत्रकम्
लक्षं जपो दशांशेन जुहुयात्पायसेन तु
प्रणवः कमला माया नमो भगवते ततः
ऊनविंशतिवर्णो ऽयं मुनिर्ब्रह्मा समीरितः
मन्त्रो ऽयं सर्वसंपत्तिसिद्धये सेव्यते बुधैः
वह्निजायावधिः प्रोक्तो मन्त्रः षोडशवर्णवान्
पञ्चाङ्गानि प्रकुर्वीत ततो ध्यायेत्सुरेश्वरम्
श्लिष्यन्तीं स्वयमन्यहस्तविलत्सौवर्णवेत्रश्चिरं पायान्नः सुविशुद्धपीतवसनो नानाविभूषो हरिः
ध्यात्वैवं प्रजपेल्लक्षं रक्तैः पद्मैर्दशांशतः
अङ्गैर्नारदमुख्यैश्च लोकेशैश्च तदायुधैः
लीलादण्डपदाब्जो ऽपि जनसंसक्तदोः पदम्
मेघश्यामपदं पश्चाद्भगवान् सलिलंसदृक्
नारदो ऽस्य मुनिश्छन्दो ऽनुष्टुप् च देवता मनोः
वेदैः पञ्चां गकं भागैर्मन्त्रवर्णोत्थितैः क्रमात्
दिश्यन्निजप्रियसखांसगन्दक्षहस्तो देवश्रियं निहतकंस उरुक्रमो नः
त्रिमध्वक्तैस्ततो ऽभ्यर्चेदङ्गं दिक्पालहेतिभिः
स सर्वैः पूज्यते लोकैस्तस्य गेहे स्थिरा रमा
भयाग्निवल्लभामन्त्रः सप्तार्णः सर्वसिद्धिदः
देवतापूर्ववच्चक्रैः पञ्चाङ्गानि तु कल्पयेत्
पाशं सयष्टिमपरत्र पयोदनीलः पीताम्बराहिरिपुपिच्छकृतावतंसः
गोदुग्धैः पूजयेत्पीठे स्यादङ्गैः प्रथमावृतिः
गुडपिङ्गां बभ्रुवर्णां चोत्तमां कपिलां तथा
गोगणाष्टकमभ्यर्च्य लोकेशानुयुधैर्युतान्
अष्टोत्तरसहस्रं यः पयोभिर्दिनशो हुनेत्
तारो हृद्भगवान् ङेंतः श्रीगोविन्दस्तथा भवेत्
चन्द्राक्षियुगभूतार्णैः सर्वैः पञ्चाङ्गकल्पनम्
ध्यायेत्कल्पद्रुमूलाश्रितमणिविलसद्दिव्यसिंहासनस्थं मेघश्यामं पिशङ्गांशुकमतिसुभगं शङ्खरेत्रे कराभ्याम्
बिभ्राणं गोसहस्रैर्वृतममरपतिं प्रौढहस्तैककुंभप्रश्चोतत्सौधधारास्नपितमभिनवांभोजपत्राभनेत्रम्
यजेच्च पूर्ववद्गोष्ठस्थितं वा प्रतिमादिषु
तत्रावाह्य यजेत्कृष्णं गुरुपूजनपूर्वकम्