सर्वज्ञ त्वंप्रशंशब्दान्ते सीदमे ऽग्निश्च मारम्
त्रयस्त्रिंशदक्षरो ऽयं महाविद्याप्रदोमनुः
पादैः सर्वेण पञ्चाङ्गं कृत्वा ध्यायेत्ततो हरिम्
वेदैः कल्पद्रुरूपैः शिखरिशतसमालंबिकोशैश्चतुर्भिर्न्यायैस्तर्कैपुराणैः स्मृतिभिरभिवृतस्तादृशैश्चामराद्यैः
व्याख्यां वामे वितन्वन् स्फुटरुचिरपदो वेणुना विश्वमात्रे शब्दब्रह्मोद्भवेन श्रियमरुणरुचिर्बल्लवीवल्लभो नः
अष्टादशार्णवत्कुर्याद्यजनं चास्य मन्त्रवित्
आनन्दवपुषे दद्यादृशार्णं तदनन्तरम्
नन्दपुत्रपदं ङेंतं श्यामलाङ्गपदं तथा
दशार्णो ऽतो भवेन्मन्त्रो द्वात्रिंशदक्षरान्वितः
देवता नन्दपुत्रस्तु विनियोगो ऽखिलाप्तये
दक्षिणे रत्नचषकं वामे सौवर्णनेत्रकम्
लक्षं जपो दशांशेन जुहुयात्पायसेन तु
प्रणवः कमला माया नमो भगवते ततः
ऊनविंशतिवर्णो ऽयं मुनिर्ब्रह्मा समीरितः
मन्त्रो ऽयं सर्वसंपत्तिसिद्धये सेव्यते बुधैः
वह्निजायावधिः प्रोक्तो मन्त्रः षोडशवर्णवान्
पञ्चाङ्गानि प्रकुर्वीत ततो ध्यायेत्सुरेश्वरम्
श्लिष्यन्तीं स्वयमन्यहस्तविलत्सौवर्णवेत्रश्चिरं पायान्नः सुविशुद्धपीतवसनो नानाविभूषो हरिः
ध्यात्वैवं प्रजपेल्लक्षं रक्तैः पद्मैर्दशांशतः
अङ्गैर्नारदमुख्यैश्च लोकेशैश्च तदायुधैः
लीलादण्डपदाब्जो ऽपि जनसंसक्तदोः पदम्
मेघश्यामपदं पश्चाद्भगवान् सलिलंसदृक्
नारदो ऽस्य मुनिश्छन्दो ऽनुष्टुप् च देवता मनोः
वेदैः पञ्चां गकं भागैर्मन्त्रवर्णोत्थितैः क्रमात्
दिश्यन्निजप्रियसखांसगन्दक्षहस्तो देवश्रियं निहतकंस उरुक्रमो नः
त्रिमध्वक्तैस्ततो ऽभ्यर्चेदङ्गं दिक्पालहेतिभिः
स सर्वैः पूज्यते लोकैस्तस्य गेहे स्थिरा रमा
भयाग्निवल्लभामन्त्रः सप्तार्णः सर्वसिद्धिदः
देवतापूर्ववच्चक्रैः पञ्चाङ्गानि तु कल्पयेत्
पाशं सयष्टिमपरत्र पयोदनीलः पीताम्बराहिरिपुपिच्छकृतावतंसः