यान्समाराध्य मनुजाः साधयन्तीष्टमात्मनः
मारशक्तिरमापूर्वो दशार्णा मनवस्त्रयः
कृष्णो गोविन्दनामात्र सर्वकामप्रदो नृणाम्
ततः किरीटमनुनाव्यापकं हि समाचरेत्
विंशत्यर्णोक्तवत्कुर्यादाद्ये ध्यानार्चनादिकम्
तृतीये तु हरिं ध्यायेत्समाहितमनाः सुधीः
दोर्भ्यां धृतं धमन्तं च वेणुं कृष्णदिवाकरम्
जुहुयात्तद्दशांशेन पायसेन ससर्पिषा
श्रीशक्तिकामः कृष्णाय गोविन्दायाग्निसुन्दरी
बीजैरमाब्धियुग्मार्णैः षडङ्गानि प्रकल्पयेत्
किं बहूक्तेन मन्त्रो ऽयं सर्वाभीष्टफलप्रदः
दशाक्षरः स एवादौ प्रोक्तः शक्तिरमायुतः
वरदाभयहस्ताभ्यां श्लिष्यन्तं स्वाङ्गके प्रिये
ध्यात्वैवं प्रजपेल्लक्षदशकं तद्दशांशतः
सर्वकामप्रदौ सर्वसंपत्सौभगाग्यदौ नृणाम्
नारदो ऽस्य मुनिश्छन्दो गायत्री देवता मनोः
षड्वीर्याढ्येन बीजेन षडङ्गानि समाचरेत्
वामे दधद्दिव्यदिगंबरो गोपीसुतो ऽवतु
दशांशं जुहुयादग्नौ सिताढ्येन पयोंऽधसा
पद्मस्थं कृष्णमभ्यर्च्य तर्पयेत्तन्मुखांबुजे
पुत्रार्थी तर्पयेदेवं वत्सराल्लभते सुतम्
वाक्कामो ङेयुतं कृष्णपदं माया ततः पगरम्
मनुस्वरयुतौ सर्गयुक्तौ भृगुतदूर्द्धूगौ
ऋषिः स्यान्नारदश्छन्दो गायत्री देवता पुनः
शक्तिस्तु वाग्भवं विद्याप्राप्तये विनियोजना
अक्षमालां च दक्षोर्द्ध्वस्फआटिकीं मातृकामयीम्
गायत्रीगीतवसनं श्यामलं कोमलच्छविम्
ध्यात्वैवं प्रमदावेशविलासं भुवनेश्वरम्
हुत्वा तु पूजयेन्मन्त्री विंशत्यर्णविधानतः
अदृष्टान्यपि शास्त्राणि तस्य गङ्गातरङ्गवत्