रिपुजन्मर्क्षवृक्षोत्थसमिद्भिरयुतं निशि
अथवा निंबतैलाक्तैर्हुनेधोभिरक्षजैः
निशादिष्टदलव्योषकार्पासास्थिकरैर्निशि
न शस्तं मारणं कर्म कुर्य्याञ्चेदयुतं हुनेत्
पारिजातहरं कृष्णं ध्यायन् लक्षं जपेन्मनुम्
व्याख्यामुद्राकरं कृष्णं रथस्थं भावयञ्जपेत्
पावाशपुष्पैर्मध्वक्तैर्लक्षं विद्याप्तयेहुनेत्
विश्वरूपधर प्रोद्यद्भानुकोटिसमप्रभम्
अर्काग्निद्योतितास्याङ्घ्रिंप्रङ्कज दिव्यभूषणम्
ध्यात्वा लक्ष जपेन्मन्त्रं रक्षणाय समाहितः
दिनमध्योक्तविधिना जपेदष्टोत्तरं शतम्
जातिपुष्पैः क्षत्रियांश्च गोपवेषधरं स्मरन्
वशयेद्वैश्यजातीयान् शूद्रान्नीलोत्पलैः स्मरन्
हुत्वान्वहं सप्तदिनं भस्म भाले च मूर्द्धनि
तांबूलं कुसुमं वासोंऽजनं चन्दनमेव च
सो ऽचिरादेष वशगः सपुत्रपशुबान्धवः
अपामार्गसमिद्भिस्तु हुत्वा तु वशयेज्जगत्
अर्चयेद्वैष्णवश्रेष्ठः सो ऽष्टसिद्धीश्वरो भवेत्
वसेत्सरस्वती वक्रे गृहे चापि सभासदः
भुक्त्वा नानाविधान्भोगानन्ते विष्णुपदं व्रजेत्
यान्समाराध्य मनुजाः साधयन्तीष्टमात्मनः
मारशक्तिरमापूर्वो दशार्णा मनवस्त्रयः
कृष्णो गोविन्दनामात्र सर्वकामप्रदो नृणाम्
ततः किरीटमनुनाव्यापकं हि समाचरेत्
विंशत्यर्णोक्तवत्कुर्यादाद्ये ध्यानार्चनादिकम्
तृतीये तु हरिं ध्यायेत्समाहितमनाः सुधीः
दोर्भ्यां धृतं धमन्तं च वेणुं कृष्णदिवाकरम्
जुहुयात्तद्दशांशेन पायसेन ससर्पिषा
श्रीशक्तिकामः कृष्णाय गोविन्दायाग्निसुन्दरी
बीजैरमाब्धियुग्मार्णैः षडङ्गानि प्रकल्पयेत्