दक्षिणाङ्गुष्टसंसक्ता तत्कनिष्ठा प्रसारिता
नोच्यन्ते तत्र सिद्धत्वान्मालाश्रीवत्सकौस्तुभाः
गाढं बद्ध्वा स्वकीये हृदयसरसिजे स्थापयेत्कामबीजं प्रोच्चार्यैषा तु गोप्या सकलसुखकरी विल्वमुद्रा मुनीन्द्रैः
मुद्राया ज्ञान मात्रेण सर्वं नाशमुपैष्यति
सर्वेष्वेकः क्रमः प्रोक्तो दशार्णाष्टादशार्णयोः
उद्दण्डबाहुदोर्दंहधृतगोवर्द्धनाचलम्
ध्यायन्कृष्णं जपेन्मन्त्रं व्रजेच्छत्रं विना सुधीः
मोघमेधौघव्राताद्गगतेन्द्रं तं स्मरन्हुनेत्
क्रीडन्तमर्कजातीरे मज्जनस्नापनादिभिः
ध्यात्वायुतं पयः सिक्तैर्हुनेद्वा नीरतर्पणैः
सदाहमोहैरार्तस्य विस्फोटकज्वरादिभिः
अथवा गरुडारूढं प्रद्युम्नबलसंयुतम्
ध्यात्वा मूर्ध्नि जपेन्मन्त्रं ज्वरमुक्तो भवेज्ज्वरी
जुहुयादमृताखण्डैरयुतं ज्वरशान्तये
ध्यात्वा जपेत्स्पृशन्नार्तं पाणिभ्यां ज्वरशान्तये
यथोक्तैरमृताखण्डैरपमृत्युनिवृत्तये
सुतं ध्यात्वा जपेल्लक्षं पुत्रपौत्रादिवृद्धये
तत्काष्ठैरेधिते वह्नौ सुतान्दीर्घायुषो लभेत्
प्रातर्ज्जप्त्वायुतं नारीमभिषिञ्चेद्दिषड्दिनम्
प्रातर्वाचंयमाश्वत्थदलसंपुटकं जलम्
सर्वलक्षणसंपन्नं वन्ध्यापि लभते सुतम्
तेजसा तस्य नगरं दहॄन्तं भावयन्हरिम्
कृत्याकर्तारमेवास्मै कुपिता नाशयेद्ध्रुवम्
स्पृशन्तं करपद्माभ्यां घण्टाकर्णकलेवरम्
महापापयुतो ऽप्येवं पूतो भवति तत्क्षणात्
जुहुयादिष्टयोर्द्विष्ट्यै गुलिका गोमयोद्भवाः
वर्षन्तं गरुडारूढं ज्वलदग्निमुखैः शरैः
ध्यात्वा सप्तसहस्रं तु जपेन्मन्त्रमनन्यधीः
ध्यायन्नुत्क्षिप्तवत्सं तु कपित्थफलहारिणम्
आत्मानं कंसमथनं ध्यायन्मञ्चान्निपातितम्