प्रणवान्तरितान्वर्णान्हृदन्तान्विज्यसेन्मनोः
हृदि नाभौ ध्वजे जान्वोः पादयोर्मस्तके पुनः
पदोर्जान्वोर्लिङ्गदेशे नाभौ हृदि मुखे नसोः
सृष्ट्यन्तो वर्णिनांन्यासः स्थित्यन्तोगृहमेधिनाम्
चतुर्द्धा वर्णिनां चैव गृहस्थानां च पञ्चधा
केचिद्विरक्ते गृहगे संहारान्तं विदुर्बुधाः
मनोर्दशावृत्तिमयं कृष्णसांनिध्यकारकम्
ऊर्वोश्च कन्धरायां च नाभौ कुक्षौ तथा हृदि
नेत्रयोः कर्णयोर्नासापुटयोश्च कपोलयोः
ततः शिरसि तत्पूर्वाद्यांशासु स्वकलासु च
मूलाधारे लिङ्गदेशे जानुनोः पादयोस्तथा
ऊर्वोर्जान्वोर्जङ्घयोश्च पादयोर्विन्यसेत्क्रमात्
अनेन न्यासवर्येण साक्षात्कृष्णतनुर्भवेत्
ततो दशाङ्गपञ्चाङ्गौ न्यासवर्यौं न्यसे क्रमात्
कट्यां पृष्ठे तथा मूर्ध्नि विन्यसेद्वैष्णवोत्तमः
अन्यो ऽप्यष्टादशार्णोक्तः कर्तव्यो न्याससंचयः
वेणुबिल्वादिमुद्रांश्च दर्शयेत्साधकोत्तमः
अनङ्गुष्ठाश्च ऋजवः करशाखा भवन्ति चेत्
प्रसारितकराङ्गुल्योर्वर्ममुद्रेयमीरिता
विष्वग्विमुक्ता कथितास्त्रमुद्रा यत्राक्षिणी तर्जनिमध्यमे च
दक्षिणाङ्गुष्टसंसक्ता तत्कनिष्ठा प्रसारिता
नोच्यन्ते तत्र सिद्धत्वान्मालाश्रीवत्सकौस्तुभाः
गाढं बद्ध्वा स्वकीये हृदयसरसिजे स्थापयेत्कामबीजं प्रोच्चार्यैषा तु गोप्या सकलसुखकरी विल्वमुद्रा मुनीन्द्रैः
मुद्राया ज्ञान मात्रेण सर्वं नाशमुपैष्यति
सर्वेष्वेकः क्रमः प्रोक्तो दशार्णाष्टादशार्णयोः
उद्दण्डबाहुदोर्दंहधृतगोवर्द्धनाचलम्
ध्यायन्कृष्णं जपेन्मन्त्रं व्रजेच्छत्रं विना सुधीः
मोघमेधौघव्राताद्गगतेन्द्रं तं स्मरन्हुनेत्
क्रीडन्तमर्कजातीरे मज्जनस्नापनादिभिः
ध्यात्वायुतं पयः सिक्तैर्हुनेद्वा नीरतर्पणैः