पृथ्वी पृथ्वी करे तस्य सर्वसस्यसमाकुला
वह्नावभ्यर्च्य गोविन्दं शुक्लपुष्पैः सतन्दुलैः
तस्यान्नादिसमृद्धिः स्यात्तदूशे सर्वयोषितः
श्रिया तस्यैन्द्रमैश्वर्यं तृणलेशायते ध्रुवम्
यो हुनेत्प्रत्यहं मासात्पुरोधा नृपतेर्भवेत्
मन्त्रराजमथो वक्ष्ये दशार्णं सर्वसिद्धिदम्
पवनो ऽग्निप्रियान्तो ऽयं दशार्णो मन्त्र ईरितः
कामो बीजं वह्निजाया शक्तिः प्रोक्ता मनीषिभिः
त्रैलोक्यरक्षणं चक्रमसुरान्तकगचक्रकम्
ततस्तारपुटं मन्त्रं व्यापय्य करयोस्त्रिशः
दक्षाङ्गुष्ठाच्च वामाङ्गुष्ठान्तमङ्गुलिपर्वसु
न्यसेद्वामकनिष्ठादिकनिष्टान्तं स्थितौ सुधीः
संहृतिर्देषसंघातहारिणी परिकीर्तिता
स्थित्यन्तः स्याद्गृहस्थानामेवं काम्यादिरूपतः
पुनः स्थितिक्रमेणार्णान्मनोरङ्गुलिषु न्यसेत्
ततो मूलेन पुटितान्मातृकार्णान्सबिन्दुकान्
ततस्तारपुटं मूलं व्यापकत्वेन विन्यसेत्
नमोन्तमूलमन्त्रार्णपदायाम्यानि चात्मने
पृथ्वी जलं तथा वह्निर्वायुराकाशमेव च
प्रविन्यसेन्मस्तके च नेत्रयोः श्रोत्रयोर्नसोः
प्रणवान्तरितान्वर्णान्हृदन्तान्विज्यसेन्मनोः
हृदि नाभौ ध्वजे जान्वोः पादयोर्मस्तके पुनः
पदोर्जान्वोर्लिङ्गदेशे नाभौ हृदि मुखे नसोः
सृष्ट्यन्तो वर्णिनांन्यासः स्थित्यन्तोगृहमेधिनाम्
चतुर्द्धा वर्णिनां चैव गृहस्थानां च पञ्चधा
केचिद्विरक्ते गृहगे संहारान्तं विदुर्बुधाः
मनोर्दशावृत्तिमयं कृष्णसांनिध्यकारकम्
ऊर्वोश्च कन्धरायां च नाभौ कुक्षौ तथा हृदि
नेत्रयोः कर्णयोर्नासापुटयोश्च कपोलयोः
ततः शिरसि तत्पूर्वाद्यांशासु स्वकलासु च