तदाज्ञायां स्थिताः सर्वे लभन्ते परमं सुखम्
महीयं ब्राह्मणानां तु दातव्या सर्व यत्नतः
परं निर्वाणमान्पोति भूमिदो नात्र संशयः
ब्रह्मलोकमवाप्नोति पुनरावृत्तिदुर्लभम्
अतिदानं तु तज्ज्ञेयं सर्वपापप्राणाशनम्
दशहस्तां महीं दत्त्वा सर्वपापैः प्रमुच्यते
भूमिदानसमं नान्यत्रिषु लोकेषु विद्यते
तस्य पुण्यफलं वक्तुं न क्षमो ऽब्दशतैरहम्
स्वल्पामपि महीं दद्याद्यः स विष्णुर्न संशयः
पृथ्वी प्रदीयते येन स विष्णुर्नात्र संशयः
स्वल्पामपि महीन्दत्त्वा विष्णुसायुज्यमान्पुयात्
दत्त्वा लभेत गङ्गायां त्रिरात्रस्नानजं फलम्
द्रोणिकां पृथिवीं दत्त्वा यत्फलं लभते शृणु
कृत्वा यत्फलमान्पोति तदाप्नोति स पुष्कलम्
तस्य पुण्यं प्रवक्ष्यामि वदतो मे निशामय
विधाय जाह्नवीतीरे पत्फलं तल्लभेद्धुवम्
सर्वपापप्रशमनमपवर्गफलप्रदम्
यच्छुत्वा श्रद्धया युक्तो भूमिदानफलं लभेत्
दरिद्रो वृत्तिहीनश्च नाम्ना भद्रमतिर्बले
श्रुतानि च पुराणानि धर्मशास्त्राणि सर्वशः
कामिनी मालिनी चैव शोभा चेति प्रकीर्तिताः
पुत्राणामसुरश्रेष्ठ सर्वे नित्यं बुभुक्षिताः
पश्यन्स्वयं क्षुधार्त्तश्च विललापाकुलेन्द्रियः
धिग्जन्म धर्मरहितं धिग्जन्म ख्यातिवर्जितम्
अहो गुणाः सौम्यता च विद्वत्ता जन्म सत्कुले
प्रियाः पुत्राश्चपौत्राश्च बान्धवा भ्रातरस्तथा
चाण्डालो वा द्विजो वापि भाग्यवानेव पूज्यते
अहो संपत्संमायुक्तो निष्टुरो वाप्यनिष्ठुरः
ऐश्वर्यगुणयुक्तश्चेत्पूज्य एव न संशयः
आशाभिभूताः पुरुषा दुःखमश्नुवते ऽक्षयम्