समासीनो ऽच्युतो ध्येयो द्रुतहाटकसन्निभः
सर्वाङ्गसुंदरः सौम्यः सर्वाभरणभूषितः
अनाहतोच्छलद्रत्नधारौघकलशं स्पृशन्
रुक्मिणीसत्यभामे ऽस्य मूर्ध्नि रत्नौघधारया
नाग्नजिती सुनन्दा च दिशन्त्यौ कलशौ तयोः
रत्ननद्याः समुद्धृत्य रत्नपूर्णौं घटौ तयोः
बहिः षोडश साहस्रसंख्याकाः परितः प्रियाः
तद्बहिश्चाष्टनिधायः पूरयन्तो धनैर्धराम्
एवं ध्यात्वा जपेल्लक्षपञ्चकं तद्दशांशतः
विलिप्य गन्धपङ्केन लिखेदष्टदलांबुजम्
शिष्टैस्तु सप्तदशभिरक्षरैर्वेष्टयेत्स्वरम्
षट्सु संधिषु षट्कर्णे केसरेषु त्रिशस्त्रिशः
षटूषः संलिख्य तद्बाह्ये वेष्टयेन्मातृकाक्षरैः
भूग्रहं चतुरस्रं स्यादष्टवज्रविभूषितम्
संस्कृतं धारयेद्यो वै सोर्ऽच्यते त्रिदशैरपि
विद्महेधीमहियुतौ तन्नो ऽनङ्गः प्रचोदयात्
हृदयं कामदेवाय ङेंतं सर्वजनप्रियम्
ज्वल ज्वल प्रज्वलेति प्रोच्य सर्वजनस्य च
प्रोक्तो मदनमन्त्रो ऽष्टचत्वारिंशद्भिरक्षरैः
पीठ प्राग्वत्समभ्यर्च्य मूर्ति संकल्प्य मूलतः
आसनादिविभूषान्तं पुनर्न्यासक्रमाद्यजेत्
शङ्खं चक्रं गदां पद्मं मालां श्रीवत्सकौस्तुभौ
षट्कोणेषु षडङ्गानि दिग्दलेषु क्रमाद्यजेत्
पत्राग्रगा महिष्यो ऽष्टौ यजेत्साधकसत्तमः
इन्द्रनीलमुकुन्दांश्च करालानन्दकच्छपान्
तद्बहिर्लोकपालांश्च वज्राद्यानपि पूजयेत्
प्रीणयेद्दधिखण्डाज्यमिश्रेण तु पयोंऽधसा
उद्वासयेत्स्वहृदये परिवारगणैः सह
रत्नाभिषेकध्यानेज्या विंशत्यर्णाश्रिते रिता
जपहोमार्चनध्यानैर्यो मनुं प्रजपेदमुम्