बहुना किमिहोक्तेन मन्त्रो ऽयं सर्ववश्यकृत्
ध्यायेत्स्वहृत्सरसिजे देवकीनन्दनं विभुम्
वन्दे वेद्यं मुनीन्द्रैः कणिकमुनिलसद्दिव्यभूषाभिरामं दिव्याङ्गालेपभासं सकलभयहरं पीतवस्त्रं नुरारिम्
मन्वोरेकं द्वितारान्तरितमथः हुनेदर्कसाहस्रमिध्मैः क्षीरिद्रूत्थर्यथोक्तैः समधुघृतसितेनाथवा पायसेन
ध्यायन्ननुदिनं मन्त्री त्रिसहस्रं जपेन्मनुम्
कृत्वा पूर्वोक्तविधिना मन्त्री तद्गतमानसः
समुत्तीर्य भवांभोधिं स याति परमं पदम्
शक्तिः श्रीपूर्विकाणिद्विनवलिपिमनोरक्षराणिच्छदानां मध्ये वर्णान्दशान्तो दशलिपिमनुवर्यस्य वैकैकशो ऽब्जम्
पट्टे हिरण्यरचिते गुलिकीकृतं तद्गोपालयन्त्रमखिलार्थदमेतदुक्तम्
रक्षायशः सुतमहीधनधान्यलक्ष्मीसौभाग्यलिप्सुभिरजस्रमनर्घ्यवीर्यम्
षडक्षरो ऽयं संप्रोक्तः सर्वसिद्धिकरो मनुः
गोविन्दवह्निचन्द्राढ्यो मनुः श्रीबीजमीरितम्
शालग्रामे मणौ यन्त्रे मण्डले प्रतिमासु वा
एवं यो भजन्ते कृष्णं स याति परमां गतिम्
कृष्णश्च देवता कामो बीजं शक्तिर्द्विठो बुधैः
मूलेन व्यापकं कृत्वा मनुना पुटितानथ
दशतत्त्वानि विन्यस्य मूलेन व्यापकं चरेत्
शीर्षे ललाटे भ्रूमध्ये नेत्रयोः कर्णयोस्तथा
उदरे नाभिदेशे च लिङ्गे मूलसरोरुहे
न्यसेद्धृदन्तान्मन्त्राणां सृष्टिन्यासो ऽयमीरितः
कट्यां जान्वोर्जङ्घयोश्च गुल्फयोः पादयोस्तथा
वदने चिबुके कण्ठे दोर्मूले विन्यसेत्क्रमात्
पादयोर्गुल्फयोश्चैव जङ्घयोर्जानुनोस्तथा
दोर्मूले कण्ठदेशे च चिबुके वदने नसोः
मूर्ध्नि न्यसेन्मन्त्रवर्णान्संहाराख्यो ऽयमीरितः
मूर्तिपञ्जरनामानं विन्यसेत्पूर्ववत्ततः
द्वारवत्यां सहस्रार्कभास्वरैर्भवनोत्तमैः
ज्वलद्रत्न मयस्तंभद्वारतोरणकुड्यके
पद्मरागस्थलीराजद्रत्नसंघैश्च मध्यतः
रत्नप्रदीपावलिभिः प्रदीपितदिगन्तरे