वशयेल्लवणैः सर्वानंबुजैर्युवतीजनम्
गवां शान्तिं करोत्याशु गोपालो गोकुलेश्वरः
ध्यात्वा प्रतर्पयेन्मन्त्री दुग्धबुद्ध्या शुभैर्जलैः
ब्रह्मवृक्षसमिद्भिर्वा कुशैर्वा तिलतन्दुलैः
वशये द्ब्राह्मणांश्चाथ राजवृक्षसमुद्भवैः
पाटलोत्थैश्च कुसुमैर्वशयेदन्तिमान्सुधीः
हुत्वायुतं त्रिमध्वाक्तैर्वशयेत्तद्वराङ्गनाः
वरस्त्रीर्वशयेत्प्राज्ञः सम्यग्धृत्वा दिनाष्टकम्
प्रत्यहं जुह्वतो मासात्सुरेशो ऽपि वशीभवेत्
स्मरेत्कृष्णं जपेद्रात्रौ सहस्रं खेन्दूहात्सुधीः
बहुना किमिहोक्तेन मन्त्रो ऽयं सर्ववश्यकृत्
ध्यायेत्स्वहृत्सरसिजे देवकीनन्दनं विभुम्
वन्दे वेद्यं मुनीन्द्रैः कणिकमुनिलसद्दिव्यभूषाभिरामं दिव्याङ्गालेपभासं सकलभयहरं पीतवस्त्रं नुरारिम्
मन्वोरेकं द्वितारान्तरितमथः हुनेदर्कसाहस्रमिध्मैः क्षीरिद्रूत्थर्यथोक्तैः समधुघृतसितेनाथवा पायसेन
ध्यायन्ननुदिनं मन्त्री त्रिसहस्रं जपेन्मनुम्
कृत्वा पूर्वोक्तविधिना मन्त्री तद्गतमानसः
समुत्तीर्य भवांभोधिं स याति परमं पदम्
शक्तिः श्रीपूर्विकाणिद्विनवलिपिमनोरक्षराणिच्छदानां मध्ये वर्णान्दशान्तो दशलिपिमनुवर्यस्य वैकैकशो ऽब्जम्
पट्टे हिरण्यरचिते गुलिकीकृतं तद्गोपालयन्त्रमखिलार्थदमेतदुक्तम्
रक्षायशः सुतमहीधनधान्यलक्ष्मीसौभाग्यलिप्सुभिरजस्रमनर्घ्यवीर्यम्
षडक्षरो ऽयं संप्रोक्तः सर्वसिद्धिकरो मनुः
गोविन्दवह्निचन्द्राढ्यो मनुः श्रीबीजमीरितम्
शालग्रामे मणौ यन्त्रे मण्डले प्रतिमासु वा
एवं यो भजन्ते कृष्णं स याति परमां गतिम्
कृष्णश्च देवता कामो बीजं शक्तिर्द्विठो बुधैः
मूलेन व्यापकं कृत्वा मनुना पुटितानथ
दशतत्त्वानि विन्यस्य मूलेन व्यापकं चरेत्
शीर्षे ललाटे भ्रूमध्ये नेत्रयोः कर्णयोस्तथा
उदरे नाभिदेशे च लिङ्गे मूलसरोरुहे
न्यसेद्धृदन्तान्मन्त्राणां सृष्टिन्यासो ऽयमीरितः